पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरार्धे चतुस्त्रिंशः पटलः । ब्रह्माधास्तु सदेशान्ताः स्थाप्याः स्युः कुम्भपञ्चके | यथादृढं सुनिश्छिद्रं कुम्भमूलं समन्ततः ॥ २५ ॥ सुधालोहादिबन्धन बघ्नीयाच्छलक्ष्ण कुट्टिमम् । कुम्भविन्यासः । विमानप्रतिष्ठाधिकारः] निष्ठितस्य विमानस्य प्रतिष्ठाविधिरुच्यते ॥ २६ ॥ उत्तरायणसंस्थेऽके मुहूर्तादौ गुणान्विते । अर्पणपूर्व तु कृत्वैशान्यां तु मण्डपम् ॥ २७ ॥ नन्दर्षिशरहस्तं वा वेदाश्रं तूत्तमादिकम् । द्वादशाष्टचतुस्तम्भं वितानाद्यैरलङ्कृतम् ॥ २८ ॥ द्विहस्तमानं तन्मध्ये स्थण्डिलं शालितण्डुलैः । चतुरश्रं वितस्त्युच्चं चतुष्पष्टिपदान्वितम् ॥ २९ ॥ तस्मिन् ब्रह्मादिकानिष्ट्वा वास्तुदेवान् यथाविधि । पञ्चविंशतिसङ्ख्यांस्तु कलशानम्बुपूरितान् ॥ ३० ॥ युक्तान् हिरण्यवस्त्राद्यैश्चोपपीठस्थदैवतैः । संस्थाप्य स्थपतिः स्नातः शुक्कवस्त्रादिभूषितः ॥ ३१ ॥ तस्योत्तरे कुशास्तीर्णे पयः पीत्वा निशि खपेत् । प्रातः प्रासादतः प्राच्यां प्राग्वद् वेदाश्रमण्डपे ॥ ३२ ॥ अलङ्कृते वितानाद्यैः सचतुर्द्वारतोरणे | मण्डपव्यासरामांशां व्यासोच्चायामतः समाम् ॥ ३३ ॥ कृत्वा वेदं तु वेदाश्रां तस्यां तत्र चतुर्दिशम् । चतुरश्राणि कुण्डानि विदिक्ष्वश्वत्थपत्रवत् ।। ३४ ॥ इन्द्रेशमध्ये चाष्टाश्रं कुण्डं कृत्वा शिवानले । आचार्यो मूर्तिपैः सार्धे मूर्तिमन्त्रैश्चतुर्दिशम् ॥ ३५ ॥ जुहोतु चाङ्गैः कोणेषु वस्वश्रे संहितास्त्रतः । मूर्तिपैर्दिक्षु होतव्यमाचार्येणाष्टकोणके ॥ ३६ ॥ वेदिकास्थण्डिले कुम्भे साङ्गमूलं शिवं यजेत् । विमानस्य चतुर्दिक्षु वृत्तकण्डेषु मूर्त्तिभिः ॥ ३७ ॥