पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विमानप्रतिष्ठाधिकारः] उत्तर चतुर्खिशः पटलः । ३४३ अगदा मनुजाः सधना: सुखिनः प्रथिता यशसा च भवन्तु चिरम् । विजयी निखिलां पशुसस्यवतीं सुकृती नृपतिः पृथिवीमवतात् ॥ ५१ ॥ ब्रह्मा विष्णुः शङ्करश्चन्द्रसूर्यौ नन्दी लक्ष्मीर्वाग् वधूः (?) स्केन्द इन्द्रः । भूमिर्देवाश्चर्षयश्च प्रजानां श्रीसौभाग्यारोग्यभोगान् कृषीरन् ॥ ५२ ॥ इति । स्थपतिस्त्वेवमुच्चार्य स्वकर्म परिनिष्ठितम् । समापयेत् स्थापकोऽपि स्वकर्माथ समापयेत् ॥ ५३ ॥ पुण्याहं वाचयित्वाग्रे कुम्भतोयकुशोदकैः । पञ्चगव्येन चाशेषं प्रासादं प्रोक्षयेत् क्रमात् ॥ ५४ ॥ ततः प्रासादमूर्त्तिं तु विन्यस्य सकलां स्मरेत् | प्रासादबीजं हंसाढ्यं द्वादशान्ताद् विनिःसृतम् ॥ ५५ ॥ आनीय विन्यसेत् तस्यां धिष्ण्यमूर्ती चिदात्मकम् । ततश्चार्थ्यादिभिस्तद्वद् गन्धाद्यैश्च यथाक्रमम् ॥ ५६ ॥ निवेद्यान्तं यजेत् सम्यग् विमानं तत् प्रसन्नधीः । यजमानस्ततः स्वर्णवसनाभरणादिभिः ॥ ५७ ॥ स्थापकं स्थपतिं चापि पूजयित्वा स्वशक्तितः । विमानकरणोदीर्णपरिशफलात्मकम् ॥ ५८ ॥ गृह्णीयाद् धर्मसर्वस्वं तक्ष्णः कनकधारया | तत्र स्वयं तु स्थपतिर्दद्यात् सलिलधारया ॥ ५९ ॥ पुनस्तं हेमवस्त्राद्यैर्यजमानस्तु तोषयेत् | यदि तक्षकरादेवं न गृह्णीयात् प्रमुग्धः ॥ ६० ॥ तत्कर्म निष्फलं तु स्याद् यतोऽस्माद् ग्राह्यमेव तत् । अथान्यानपि तक्षादीन् कर्ता कर्मकरानपि ॥ ६१ ॥ तोषयेदुचितैर्द्रव्यैर्मूर्तिपान् ब्राह्मणानपि । गोधान्यध्वजवस्त्राद्यं दद्यात् स्थपतयेऽखिलम् ॥ ६२ ।। भोजयेद् ब्राह्मणादींश्च दक्षिणाभिश्च तोषयेत् । ब्रह्मैव स्थपतिः साक्षाद् यजमानः स्वयं हरिः || ६३ ॥