पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्थातव्यम् । ईशान शिवगुरुदेवपद्धतो मायासदेशरुद्रान्तं ध्यात्वा रक्षां तथास्त्रतः । ततः कुण्डान्तिकं गत्वा शक्तिमाधारसंज्ञिताम् ॥ ८७ ॥ [क्रियापाद: प्राग्वत् कालादितत्त्वानि तारहद्वीजपूर्वकम् । नमोन्तममौ विन्यस्य तथाज्याहुतिभिः पुनः ॥ ८८ ॥ हुत्वा जपित्वा तत्सङ्ख्यं शिवाज्ञां श्रावयेत् ततः । 'ओं हां कालाधिप स्वतत्त्वेन सह शिवाज्ञया प्रासादस्थितिपर्यन्तमत्र विद्याद्याधारशक्त्यन्तं पृथगित्थं निरोधयेत् ॥ ८९ ॥ ततो गर्भगृहादूर्ध्वं शुकनासस्य चोपरि | खट्वायां क्ऌप्तशय्यायां हेमाद्येकतमं घटम् ॥ ९० ॥ विन्यस्याज्यमधुभ्यां तं पूर्ण रत्नादिभिर्युतम् । सूक्ष्मवासोयुगच्छन्नमिष्ट्वा गन्धादिभिः क्रमात् ॥ ९१ ।। तं हेमपुरुषं तस्मिन् विन्यस्याराघयेत् पुनः । प्रायश्चित्तमघोरेण हुत्वाथाचार्यदक्षिणाम् ॥ ९२ ॥ दद्यान्मूर्तिपतिभ्यश्चे ब्राह्मणेभ्यश्च शक्तितः । भगवन्तं च वह्निं च यथापूर्वी विसर्जयेत् ॥ १३ ॥ हृत्प्रतिष्ठाधिकारः । एवं स्तूपीकुम्भयोश्च प्रतिष्ठा तन्त्रेषूक्ता या विमानप्रतिष्ठा । प्रोक्ता यस्मिन् हृत्प्रतिष्ठा च याभिः प्रासादः स्यात् सुप्रतिष्ठो महेशः ॥ ९४ ॥ इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभाग क्रियापादे स्तूप्यादिलक्षणपटलञ्चतुत्रिंशः । अथ पञ्चत्रिंशः पटलः । अथानुकर्म विज्ञेयं धाम्नां वा कालपाकतः । पतितं स्स्खलितं जीर्ण प्रासादाङ्गं यदा भवेत् ॥ १ ॥