पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्भुतशमनम्] उत्तरार्धे पञ्चत्रिंशः पटलः । छिद्रं व्रणं दरी निम्नमन्यच्चाप्य शुभावहम् । देशदेशाधिपस्थानकर्तृभर्तृविनाशनम् ॥ २८ ॥ अपिच अधिष्ठाने तु वैरूप्यं तत्सन्तानविनाशनम् । प्रत्यां तु स्त्रीविनाशाय स्तम्भे नृपपराजयः ॥ २९ ॥ प्रस्तरे द्विजनाश: स्यात् कण्ठे तु वणिजां क्षयः । नासिकासु खपक्षघ्नं शिखरे राजविभ्रमः ॥ ३० ॥ स्तूपिकाकुम्भवैरूप्यं तद्राष्ट्रजननाशनम् । अस्थानद्वार सोपानं सर्वेषामशुभावहम् ॥ ३१ ॥ अस्थानभित्तिकस्तम्भमनुक्तानविरूपता । अचोदितालङ्करणमन्यच्चानिष्टदुःखदम् ॥ ३२ ॥ पूजोपचारविच्छेदो बलिच्छेदोऽप्यवृष्टिकृत् । सर्वाङ्गसुन्दरं तस्माद् घाम कुर्यात् सलक्षणम् ॥ ३३ ॥ नाशं दुःखं मृतिं पुष्टिं कुलवृद्धिं कुलक्षयम् । धनं सुखं च नैर्धन्यं कुर्यात् पूर्वाददिग्दरी ॥ ३४ ॥ मृतिं रोगं चाग्निभयं बन्धुनाशं धनं सुतम् । मित्रागमं च पुष्टिं च विनाशं चावहेत् क्रमात् ॥ ३५ ॥ ब्रह्मस्थानाद्यमीशान्तं वल्मीकं भवनादिषु । पातोऽशनेश्च क्षौद्रस्य न्यासः सर्वत्र गर्हितः ॥ ३६ ॥ घनागमं धनापायं मित्रप्राप्तिं सुखं श्रियम् । वर्षे कन्यागमं पुत्रं कलहं रक्तकन्यका ॥ ३७ ॥ ब्रह्मस्थानात् तु शकाद्यमीशानान्तं यथाक्रमात् । उक्तादवान्तरेऽन्यत्र द्वारे च कलहादिकम् ॥ ३८ ॥ अनर्थमावहेद् यस्मात् तच्छान्त्यै जुहुयाद् घृतम् । उलूका गृधकाः श्येनास्तथा वनकपोतकाः ॥ ३९ ॥ १. 'धृतम् रक्तस्त्रीदर्शनस्य उ' क. ख. पाठः. ३४९