पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Alper Payta अत्र मयः इति । पिङ्गलाश्च चकोराश्च गृहे स्युश्चेदनर्थदाः । देवमानुषगेहेषु मठगोष्ठसभादिषु ॥ ४० ॥ वल्मीकाद्यद्भुतानां तु दोषशान्तिस्तु कथ्यते । खननादिक्रियाभिस्तदपनीयोपलिप्य तु ॥ ११ ॥ गोभिरध्याषिते तस्मिन् हुत्वा चाद्भुतशान्तिकम् । रक्षोघ्नं वास्तुहोमं च दत्त्वा वास्तुबलिं ततः ॥ ४२ ॥ ब्राह्मणान् भोजयित्वा तु पुण्याहं वाचयेत् पुनः | यथावदावसेत् तस्मिन् सर्वसंपत्करं भवेत् ॥ ४३ ॥ अद्भुतशमनम् । ning प्रासादभवनादीनां रक्षालङ्कारसिद्धये । वप्रांणि क्रमशः कुर्यात् पञ्चत्रियेकसंख्यथा ॥ ४४ ॥ तत्रान्तर्मण्डलं त्वाद्यमन्तर्हाराथ तद्वहिः । मध्यहारा च मर्यादा महामर्यादकं ततः ॥ ४५ ॥ "क्षुद्राणामस्पहर्म्याणां खव्यासाप्रमाणतः । अन्तर्मण्डलकं कुर्यात् सत्रिहस्तं तु तत्समम् || द्वितीयं तु तृतीयं च तस्मात् पञ्चकराधिकम् । तस्मात् ससप्तहस्तं तु तत्समं स्याच्चतुर्थकम् ॥ नवहस्तसमायुक्तं तत्समं पञ्चमं भवेत् ।। " मध्यमानां तु मूलार्धमन्तर्मण्डलकं भवेत् । ततः शरर्षिबृहतीरुद्रहस्तं यथाक्रमात् ॥ ४६ ॥ वप्रान्तरालविस्तारः प्रोक्तः प्राकारपञ्चके । अथोत्तमानां मूलार्धे प्रथमं त्वथ चर्षिभिः ॥ ४७ ॥ नन्दरुद्रातिजगतीहस्तैर्हारा भवन्ति हि । • अन्तर्मण्डल मित्तेः स्याद् विष्कम्भः सार्धहस्तवान् ॥ ४८ ॥