पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मोपुरविधेः 0927 उत्तरार्धे पचत्रिंशः पटलः । द्वाराणां तत्र विस्तारादुत्सेधः पञ्चधोच्यते ॥ ८४ ॥ पञ्चांशेभ्यश्च सप्तांशः सप्तांशेभ्यो दशांशिकः | द्विगुणोऽर्वाधिकः पादमधिकः पञ्चधोच्छूयः ॥ ८५ ॥ क्रमेण पञ्चसालानामेकत्रिशरसप्तकम् । नवाङ्गुलं च संत्यज्य दक्षिणादक्षिणक्रमात् ॥ ८६ ॥ द्वारं नियोजयेत् तत्र मूलवस्तु निरीक्ष्य तु । पादाधिष्ठानतुत्वं वेदेष्वृषिभुजङ्गमैः ॥ ८७ ॥ नन्दपलीशसूर्यांशान्मूलादेकांशहानितः । साघिष्ठानाप्रितुङ्गः स्याच्छेषं स्यादुपपीठकम् ॥ ८८ ॥ पादबन्धं मसूरं च यथावत् परिकरुपयेत् । पट्टिकाङ्गमधिष्ठानस्तम्भमानं तु मूलवत् ॥ ८९ ॥ वसुनन्ददिगंशोनं गोपुरस्तम्भतुङ्गता । निखातपादं होमान्तं जित्वाधिष्ठानकं न्यसेत् ( ? ) ॥ ९० ॥ उत्तरान्तसमानं तदर्ष वा विपुलं भवेत् । प्रवेशदक्षिणे गर्भ न्यसेदारूढमित्तिके ॥ ९१ ॥ पादाधिष्ठानयोस्तुङ्गादधिको मिश्रकोदयः । द्वार पुरग्रामराजधान्यादिषूदितम् ॥ १२ ॥ न्यसेद् गोपुरकुंड्याग्रे लिष्टं योगं कवाटयोः । तत्सीमानं तु प्रान्तं कुर्यान्मध्ये सुराये ॥ ९३ ॥ एकादिपञ्चभूम्यन्तमरूपानां गोपुराणि हि । द्विभौमात् षट्तलान्तानि मध्यानां गोपुराण्यपि ॥ ९४ ॥ -द्वितवात् सप्तभौमान्तमुत्तमानां तु गोपुरम् । "सोपपीठमषिष्ठानं पादोच्चं चोचरान्तकम् । "शेषं तत्स्तूपिपर्यन्तं भागमानं विधीयते ॥" स्तूप्यन्तमुत्तरादूर्ध्वं षोढा भक्तं ल गोपुरम् ॥ १५ ॥ इति मयः । ३५२५