पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोपुरविधिः] उत्तराधे पञ्चत्रिंशः पटलः । साधिरोहणसोपानं सान्तरप्रस्तरान्वितम् । ऊहप्रत्यूहशोभाढ्यं द्विसप्तमु (प ? ख) पट्टिकम् ॥ १०४. ।। दीर्घाग्राकार विन्यासं श्रीमन्दिरमिति स्मृतम् । तदेव तु शिरः पार्श्वे त्यक्त्वा पूर्वतलं पुनः ॥ १०९ ॥ मुखे पट्टिकषट्केन युक्तं स्याच्छ्रीनिकेतनम् । एकदेवसभाशीर्ष षण्महानासिकान्वितम् ॥ ११० || सुमङ्गलाभिधानं स्यात् विशालमथ कथ्यते । प्रागुक्तमेव परितो भागवृद्ध्या सगण्डिमम् ॥ १११ ॥ चूडहर्म्यान्वितं श्रीमद् विशालाख्यं तु गोपुरम् । तदेव परितो भक्त्या युक्तं भव्याभिधानकम् ॥ ११२ ॥ तदेव वृत्तशिखरं दीर्घाकारं मनोरमम् । वृत्ताग्रकूटं कर्णेषु पौष्टिकं नाम गोपुरम् ॥ ११३ ॥ तदेव हि मुखे वेदभागार्धान्मण्डपान्वितम् । खण्डहर्म्यपताकाढ्यं सुमण्डाख्यं तु गोपुरम् ॥ ११४ ॥ कपोतशालासंयुक्तं नाम्ना स्यात् पारिकूटकम् । एतानि गोपुराण्यष्टौ शुद्धमिश्रक्रियावशात् ॥ ११५ ॥ अथ त्रिभौमादियुतं षष्टिद्वितयनासिकम् । साधिष्ठानं च सस्तम्भकूटशालं सतोरणम् ॥ ११९ शालातः पञ्जरोपेतं गुह्यागुह्याधिरोहणम् । देवश्रेष्ठनरेन्द्राहं सुभद्रं नाम गोपुरम् ॥ ११७ ॥ द्वितलं तु विभागेन पार्श्वयोर्गर्भवेश्मनः । चतुरश्रं चतुर्नासीसाङ्गावयवसुन्दरम् ॥ ११८ ॥ भद्रकल्याणसंज्ञं तत् तदेव शिखरे यदि । अष्टाश्रकूटशालाढ्यं भद्रसुन्दरसंज्ञितम् ॥ ११९ ॥ मुखे मुखे तदेव स्याद् विनिर्गतसभामुखम् । परितो भागवृद्धया तु तलैः सप्तभिरन्वितम् ।। १२० ॥ 'ए. क. पाठ: १.