पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५८ ईशानशिवगुरुदेवपद्धतौ श्रीकरं नाम तत् प्रोक्तं गोपुरं सुमनोरमम् । इति गोपुरविधिः । [क्रियापाद: इत्येवमुक्तमनुकर्मविधानमादौ शान्तिर्यथावदुदितात्र तथाद्भुतानाम् । प्राकारलक्ष्म कथितं वृषलक्षणं च प्रोक्तश्च गोपुरविधिर्निखिलः समासात् || इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादेऽनुकर्मादिलक्षणपटलः पञ्चत्रिंशः । अथ षट्त्रिंशः पटलः । अथ लिङ्गं त्रिधा ज्ञेयं निष्कलं सकलं तथा । मिश्रं चेति च तल्लिङ्गमचलं च चलं द्विधा ॥ १ ॥ निष्कलं केवलं लिङ्गं सकलं प्रतिमा स्मृता । मिश्राख्यं मुखलिङ्गं स्यान्मिश्रलक्षणलक्षितम् ॥ २ ॥ शैलं रानं तथा लौहं दारखं मार्त्तिकं पुनः । क्षणिकं चेति षोढा स्यात् क्रमालिङ्गं तु निष्कलम् ॥ ३ ॥ ब्राह्मणक्षत्रविट्च्छूद्रशिलाः स्युर्धवलारुणाः । पीताः कृष्णाश्च लिङ्गानि कुर्यात् ताभिर्यथाक्रमम् ॥ ४ ॥ सर्वेषामथवा सर्वाः शिलाः स्युरिति केचन | मुक्तिं जयं धनं धान्यं दद्युः शुक्लादिकाः शिलाः ॥ ५ ॥ स्फटिक: पद्मरागश्च वज्रं नीलं हिरण्मयम् । वैडूर्य विद्रुमं पुष्यं रत्नलिङ्गं तथाष्टघा ६ ॥ स्फटिकः सूर्यकान्तश्च चन्द्रकान्त इति त्रिधा | स्फटिकस्यैव भेदाः स्युः काममोक्षार्थदाः क्रमात् ॥ ७ ॥ श्रियं कामांस्तथारोग्यमृद्धिं पुत्राञ् जयं सुखम् । लभते पद्मरागादिलिङ्गानां क्रमशोऽर्चनात् ॥ ८ ॥ रत्नानामिह सर्वेषां दोषाः सामान्यतो नव । रेखा बिन्दुः कलङ्कश्च काकामिक्षतधूलयः ॥ ९ ॥