पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

किङ्गोपादानाधिकार:] उत्तरार्धे षट्त्रिंशः पटलः । तुषारत्रासरन्ध्राणि यत्नाद् रत्नेषु वर्जयेत् । सौवर्ण राजतं ताम्रं पैत्तलं कांस्यमायसम् ॥ १० ॥ सैसकं त्रापुषं चेति लौहं लिङ्गं तदष्टधा । भुक्तिमुक्तिप्रदं हैमं लिङ्गं रौप्यं तु पुष्टिदम् ॥ ११ ॥ शौल्वं पुत्रप्रदं कांस्यं सौख्यदं त्वथ पैत्तलम् । आयुरारोग्यदं विद्यादायसं मरणं स्मृतम् || १२ || सैसकं त्रापुषं चापि विद्वेषोच्चाटमारणे । मुख्यलोहानि चत्वारि हेमादीनि शुभानि हि ॥ १३ ॥ पिशाच लोहान्यन्यानि कांस्यादीनि विवर्जयेत् । चन्दनं देवदारुश्च शमीपिप्पलशिशपाः ॥ १४ ॥ खदिरांसनमालूरमधूकबकुलास्तथा । पद्मकः कर्णिकारश्च विप्रादीनां त्रयस्त्रयः ॥ १५ ॥ क्रमाद् दारवलिङ्गानां विज्ञेयास्तरवः शुभाः । तीर्थक्षेत्राचलाराम पुण्यदेशोद्भवां मृदम् ॥ १६ ॥ शुक्लां रक्तां तथा पतिां कृष्णां वादाय चूर्णयेत् । यवगोधूममाषाणां चूर्णानां गुग्गुलोरपि ॥ १७ ॥ ·लाक्षाश्रीवेष्टकश्यामोसर्जानां तु समांशकैः । कुन्दरुष्कस्य चांशेन मृचूर्ण सर्वतः समम् ॥ १८ ॥ कपिला पञ्चगव्येन सतैलेन तु मर्दयेत् । तां मृदं मृदितां पक्षं मासमान्नोषितं पुन. ॥ १९ ॥ आदाय लिङ्गं कुर्वीत सपीठं स्वेष्टमानतः । तु मासं तु शोषयेद् धर्मे लिङ्गमामं तु मार्त्तिकम् ॥ २० ॥ अथवा केवलां मृत्स्नां कर्मयोग्यां विंचूर्णिताम् । मार्दतां पञ्चगव्याद्भिर्मासमात्रं तथोषिताम् ॥ २१ ॥ गृहीत्वा कारयेल्लिङ्गं सपीठं लक्षणान्वितम् । विपचेत् कुशलैरमौ पकं लिङ्गं तु तद् भवेत् ॥ २२ ॥ १. 'मानूस' क. पाठः, ३५९