पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ राज्यनाशस्तु गोधां चेत् सर्पे कर्तुः कुलक्षयः । कुलीरालिपतशेषु रोगदुःखादिसम्भवः ॥ १३ ॥ विमलासु सदा चौर्य परचक्रभयानि वा । पिपीलिकाः प्रवासाय विमला स्थाननाशनम् ॥ १४ ॥ कूर्मः कुर्यात् तु दारिद्र्यं रत्नगर्भेषु सम्पदः । रेखाश्च लक्षयेल्लिङ्गे शोभनाश्चाप्यशोभनाः ॥ १५ ॥ शिलास्वर्णरेखास्तु वर्णानां क्रमशो मताः । इन्द्रायुधनिभाः शस्ता रेखाः शङ्खाम्बुजोपमाः ॥ १६ ॥ नानावर्णाः कृशाः स्थूला रूक्षा रेखाश्च निन्दिताः । अत्र मञ्जय - इति । [क्रियापाद: “नन्द्यावर्तवसुन्धराघरहयश्रीवत्सकूर्मोपमाः शङ्खस्वस्तिकहस्तिगोवृषनिभाश्चक्रेन्दुसूर्योपमाः । छत्रसग्ध्वजलिङ्गतोरणमृगप्रासादपद्मोपमा वज्राभाः शफरोपमाश्च शुभदा रेखाः कपर्दोपमाः ॥ अमेश्व बीजं पवनस्य बजिं भूयः स्वराण्यत्र नपुंसकानि । हित्वा प्रशस्ताः शुभदाः समस्ता रेखास्तु लिङ्गेऽक्षरतुल्यरूपाः ॥ काकश्येनवृकोष्ट्रवानरनिभा मार्जारगृधोपमाः सर्पोलूकसृगालकीटसदृशाः कोलाश्च भेकोपमाः । रेखास्तिर्यग वस्थिताश्च सकलाश्चान्याश्च दोषावहाः सन्त्यज्य प्रतिगृह्य शोभनशिलां लिङ्गं तथा कल्पयेत् || आरभ्य हस्तं नवहस्तकान्तं लिङ्गं विधेयं नरदैत्यदेवैः । हस्तादिकं पञ्चकरान्तमादौ लिङ्गे मनुष्यस्य तु वर्णभेदात् ।। दैत्यस्य षट्सप्तकरं तु लिङ्गं गीर्वाणलिङ्गं तु नवाष्टहस्तम् 12 हस्तोमानादारभ्य पादवृद्धिक्रमेण तु ॥ १७ ॥ १. 'ज' य. पाठः,