पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरार्धे सप्तत्रिंशः पटलः । त्रिहस्तान्तं कनिष्ठादिलिङ्गानि स्युर्नेर्बहिः । चतुर्हस्तायताल्लिङ्गात् प्राग्वत् पादविवर्धनात् ॥ १८ ॥ षड्ढस्तान्तं मध्यमानि लिङ्गानि नव कल्पयेत् | सप्तहस्तोच्चमारभ्य पादवृद्ध्या तु पूर्ववत् ॥ १९ ॥ श्रेष्ठानि नवहस्तान्तं लिङ्गानि स्युर्नव क्रमात् । त्रिचतुर्हस्तयोर्मध्ये प्राग्वल्लिङ्गत्रयं भवेत् ॥ २० ॥ मध्ये षट्सप्तकरयोस्तथा लित्रयं स्मृतम् । लिङ्गविकल्पाधिकारः] एवं प्रसिद्धलिङ्गानां त्रयस्त्रिंशदुदाहृतम् ॥ २१ ॥ प्रासादमानाच्च तथा वेदबाणर्तुभागतः । लिङ्गायामोऽथवा कार्यः प्रकारोऽन्यश्च कथ्यते ॥ २२ ॥ गर्भागारे तु पञ्चांशेलिङ्गं भागत्रयोच्छ्रितम् | गर्ने वा नवभागे स्याल्लिङ्गं पञ्चांशमायतम् ॥ २३ ॥ गर्भरामांशतोंऽशेन गर्भार्धोच्चं तु वा स्मृतम् । लिङ्गस्य दैर्ध्यमिति यावत् । तत्रैकहस्तलिङ्गस्य चतुर्हस्तं तु विस्तृतम् ॥ २४ ॥ विमानं स्यात् तथा पञ्चगुणं षड्गुणमेव वा । विस्ताराद् द्विगुणोच्चं तु नागरं त्रिगुगं यदि ॥ २५ ॥ भूमिजाख्यं स्मृतं तस्माद् द्विगुणं शिखरं यदा | नागरं वलभिर्नाम विमानं भवति स्फुटम् ॥ २६ ॥ लिङ्गायामे विकारांशे भूतवेदाभिविस्तरम् । जयदं पौष्टिकं सार्वकामिकं नागरे स्मृतम् ॥ २७ ॥ गर्भे त्रिसप्तभागे तु दशांशं द्राविडेऽधमम् | त्रयोदशांशकं मुख्यं गर्भेऽष्टांशे तु पूर्ववत् ॥ २८ ॥ त्रिसप्तांशे निजायामे षट्पञ्च चतुरंशकम् । जयदं पौष्टिकं सार्वकामिकं द्राविडे भवेत् ॥ २९ ॥ अभिकृत्यंशके गर्ने षोडशांशं तदुत्तमम् । त्रयोदशांशमधमं तयोर्मध्येऽष्टभागतः ॥ ३० ॥ ३६७