पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

200 ३६८ अत्र मयः ईशान शिव गुरुदेवपद्धतौ नवलिङ्गानि सिध्यन्ति वेसरे तानि कल्पयेत् | पञ्चपञ्चांश के दैर्ये वसुसप्तपदंशकैः ॥ ३१ ॥ विस्तारे वेसरे विद्यात् पूर्ववज्जयदादिकम् । अथ स्थिराणां लिङ्गानां ब्रह्मविष्णवीशदैवतम् ॥ ३२ ॥ मूलं मध्यं तथैवाग्रं चतुरडायवर्तुलम् | त्रिभागमेवं विज्ञेयं तेषां मेदश्च लिख्यते || ३३ || [क्रियापादः सर्वतोभद्रकं लिवर्धमानं शिवाधिकम् | स्वस्तिकं च चतुर्धा स्यात् तल्लक्ष्म पृथगुच्यते ॥ ३४ ॥ विप्राणां सर्वतोभद्रं भूभुजां वर्धमानकम् । शिवाधिकं विशामिष्टं शुद्धाणां स्वस्तिकं हितम् ॥ ३५ ॥ स्ववर्णविहितं लिङ्गं स्थाप्यं स्यादिष्टसिद्धये । अन्यवर्णोदितं लिङ्गमिहामुत्रार्थनाशनम् ॥ १६ ॥ " आद्यं तत् सर्वतोभद्रं द्वितीयं वर्धमानकम् । शिवाधिकं तृतीयं स्याच्चतुर्थं स्वस्तिकं भवेत् ।। अथ धरणिसुराणां सर्वतोभद्रमिष्टं सुखदमवनिपानां वृद्धिदं वर्धमानम् । धनदमिह विशां वै शम्भुभागाधिकं य- च्छुभदमिह परेषां स्वस्तिकं शूद्रकाणाम् ॥ " परेषामपीत्युक्तत्वादनुलोमप्रतिलोमादीनामपि स्वस्तिकलिङ्गमेवेष्टमिति यावत् । गर्भागारे त्रिभागेंऽशः पीठं पीठे त्रिभागिके । भागेन लिङ्गविस्तारः परिणाहस्तु तस्य यः ॥ ३७ ॥ स्याल्लिङ्गोच्चं तु तत्तुल्यं लिङ्गायामं समं त्रिधा | विभज्य ब्रह्मविष्ण्वीशभागाः सर्वसमे मताः ॥ ३८ ॥ कांशः पादशिलायां स्याद् विष्ण्वंशः पिण्डिकासमः । दृश्यः शिवांशः पूज्य: स्यात् सर्वलिङ्गेष्वयं विधिः ॥ ३९ ॥