पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्रि विकल्पाधिकारः] अत्र पिङ्गलामते . उत्तरार्धे सप्तत्रिंशः पटलः । “सममाना भवद् वेदी लिङ्गस्यावारिका यथा ।” इति । तद्यथा इति । Baw.coming - पूजांश एव निर्दिष्टो लिङ्गशब्देन चात्र हि | वेदाश्रपिण्डिकायास्तु लिङ्गे सर्वसमे त्विदम् ॥ ४० ॥ तल्लिङ्गपरिणाहस्थब्रह्मसूत्रचंतुष्टये | विस्तारः सम एव स्याच्छायादोषोऽन्यथा भवेत् ॥ ४१ ॥ अतो सिपीठं स्याच्छायादोषवर्जितम् । वेदाश्रपिण्ड्किाक्षेत्रापेक्षया वर्तुलादिषु ॥ ४२ ॥ यथा बृहत्तन्त्रे- पीठेषु लिङ्गतुल्या स्यात् परिणाहान्त विस्तृतिः । तथा कृशेषु लिङ्गेषु पिण्डिकाधिकविस्तृतम् ॥ ४३ ॥ अवगम्य शिवांशे तु वर्धयेत् तत्समं यथा । यावद् वृद्धं शिवांशे तु ब्रह्मांशे हापयेत् तु तत् ॥ ४४ ॥ तद्वत् स्थूलेषु लिङ्गेषु न्यूनतां पीठविस्तृतेः । विज्ञाय पूजाभागं तु कुर्यास्वं तदंशतः ॥ ४५ ॥ ब्रह्मांशे वर्षयेद् भागं वृद्धिहानी न वैष्णवे । “कृशेषु वर्धयेद् रुद्रं स्थूललिङ्गेषु हासयेत् । ह्रासयेद् वर्धयेत् कांशं न वृद्धिर्न च्युतिर्हरे: ।। " छायादोषविचारोऽयं लिङ्गे सर्वसमे स्मृतः ॥ ४६ ॥ वर्षमानादिलिङ्गेषु नैतदित्येव केचन । तद्वद् व्यक्तेषु लिङ्गेषु व्यक्ताव्यक्ते च रत्नजे ॥ ४७ ॥ स्वयम्भुवि तथा बाणेऽप्यार्षे च नियमो न हि । वर्धमानादिलिङ्गानां त्रयाणामप्ययं विधिः ॥ ४८ ॥ मयसूत्रे तु कथितच्छायादोषं विना यथा । लिङ्गायतिप्रमाणानीत्यादिना पीठविस्तृतिः ॥ ४९ ॥