पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इति । तद्यथा ईशान शिवगुरुदेवपद्धतौ शिवभागसमा कार्या व्याख्यातं सङ्ग्रहे तथा । “यावल्लिङ्गस्य वै दैर्ध्य तावत् पीठस्य विस्तृतिः ||" - संकृत्यंशे तु लिङ्गोच्चे सप्ताष्टनवभिः क्रमात् ॥ ५० ॥ अंशैर्ब्रह्महरीशानभागाः स्युर्वर्धमानके । लिङ्गायामे प्रकृत्यंशे षट्सप्ताष्टांशकल्पिताः ॥ ५१ ॥ क्रमाद् ब्रह्मादिभागाः स्युरेवं वा वर्धमानके । पञ्चषट्सप्तभागैर्वा चतुष्पञ्चषडंशकैः ॥ ५२ ॥ वर्धमानं भवेल्लिङ्गं श्रेष्ठमध्याधमं क्रमात् । लिङ्गायामे तु पङ्क्यंशे रामाग्निश्रुतिसम्मितैः ॥ ५३ ॥ अंशैर्ब्रह्मादिभागाः स्युः क्रमालिङ्गे शिवाधिके । लिङ्गोत्सेधे तु नन्दांशे षट्सप्तवसुभागिकैः ॥ ५४ ॥ ब्रह्मविष्ण्वीशभागानां क्रमान्नाहाः प्रकीर्तिताः । लिङ्गे त्रैराशिकं नाम भवेत् सर्वसमे तु तत् ॥ ५५ ॥ स्वायामार्घार्धविस्तारं स्वस्तिकं वा शिवाधिकम् । वर्धमानं च तल्लिङ्गं नाम्ना सुरगणार्चितम् ॥ ५६ ॥ तत्सार्वदेशिकं ज्ञेयं सर्ववर्णहितावहम् । पौष्करे कारणाख्ये च यथोक्तं तत्र कथ्यते ॥ ५७ ॥ [क्रियापद चतुरंशादि विप्राणां पञ्चांशादि नृपोचितम् । षड्भागादि विशां योग्यं सप्तांशाद्यं तु वार्षलम् ॥ ५८ ॥ वर्धमानं चतुर्भेदमेव वर्णक्रमाद्धितम् । अथ शिवाधिकं च | आकृत्यंशे तु लिङ्गोच्चे सप्तसप्ताष्टभागिकम् ॥ ५९ ।। ब्रह्माद्यंशेषु यल्लिङ्गं विप्राभीष्टं शिवाधिकम् । त्रयोदशांशे लिङ्गोच्चे वेदवेदशरांशकैः ॥ ६० ॥