पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ अर्धेन्दुसदृशं चाथ बुहुदं पञ्चमं स्मृतम् । अत्र सर्वतोभद्रवर्धमानादिलिङ्गानां यथाप्रमाणावस्थित शिरसामेव वर्त नेन पूजांशायामे न्यूनतया तत्तत्प्रमाणभङ्गादू दोषः सिद्धः । तस्मादुक्तप्रमा णलिङ्गनेत्रसूत्रादूर्ध्वमेव शिरोवर्तनेन सकले मकुटादिवल्लिङ्गमस्तकं सम्पाद नीयम् । अत्र मयः : HUMA २०६ " सर्वेषामपि चैताः सामान्यास्तत्र लिङ्गानाम् | शिरसो वर्तनभागत्र्यंशैकं चाघिरोप्य निजतुने || लिङ्गायामे षट्षड्भागयुते तेन सार्धमतः । अवरे मध्यमलिङ्गे श्रेष्ठे लिङ्गे तथा शिरोमानम् ॥ इन्द्वश्विनिगुणभागाः प्रोक्ताः सर्वेष्वपि क्रमशः । " इति । तद्यथा ANA इति मयः । पूजांशायामतत्त्वांशादेकद्वित्र्यंशकात् क्रमात् ॥ ७९ ॥ नीचे मध्ये तथा श्रेष्ठे लिङ्गे तन्मानतोऽधिकम् । संस्थाप्योपरि नेत्रोर्ध्वं शिरसः सिद्धये पुनः ॥ ७४ ।। उक्तवर्तनभागानां त्र्यंशकांश तथोपरि । शिलामारोप्य तन्मध्ये बिन्दुं सम्पाद्य शास्त्रतः ॥ ७५ ॥ तस्मिन् सूत्रं निषायाथ वक्ष्यमाणक्रमेण तु । शिरसो बर्तनं कुर्याच्छत्राकारादिसिद्धये ॥ ७६ ॥ लिङ्गे व्यासात् षोडशांशांदेकद्वित्रियवांशकान् । भारोप्य केऽधः संलम्ब्य लिङ्गस्योभयपार्श्वयोः ॥ ७७ ॥ वर्तयेत् तत्र चत्वारिच्छत्रामाणि भवन्ति हि । प्रथमं च द्वितीयं च समलिङ्गे नियोजयेत् ॥ ७८ ॥ शिवाधिके तृतीयं तु चतुर्थ वर्धमानके । बर्तनाः सङ्करं नैव कुर्यात् तदशुभं यतः ॥ ७९ ॥ “सङ्करमन्योन्यस्याप्यशुभं स्याद् वर्तनानां च । "