पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आर्षादिलिनभेद: ] उत्तराधे अष्टात्रिंशः पटलः । षडशे लिङ्गविस्तारे सार्धधशेन वर्तनात् । त्रपुषाभं शिरः सिध्येद् रामांशैः कुक्कुटाण्डकम् ॥ ८० ॥ लिङ्गव्यासतृतीयांशवर्तनादर्घचन्द्रकम् । लिङ्गव्यासेऽष्टधा भक्त सार्धीशत्रयवर्तनात् ॥ ८१ ॥ बुहुदाभं तु लिङ्गस्य शिरः सिध्यति शोभनम् । सामान्याः सर्वलिङ्गेषु वर्तनास्त्रपुषादिकाः ॥ ८२ ॥ छत्राकारोक्तभेदास्तु लिङ्गेषु नियताः पृथक् ॥ ८२३ ॥ अत्र मञ्जय मये च वर्तनाप्रकार उक्तः - “लिङ्गानां शिरसीप्सितांशमुभयोः संलम्ब्य तत्पार्श्वयोः इति ॥ कृत्वा मत्स्ययुगं तदास्यजघनान्निष्क्रान्तसूत्रद्वये | तस्माद् यत्र च संयुतिर्मतिमता बिन्दुत्रयाढ्यं यथा तत्तद् वर्तयितव्यमन्त्र बहुधा सोपायमीशोदितम् ॥ " इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे मानुषशिलालिङ्गलक्षणपटलः सप्तत्रिंशः । अथाष्टात्रिंशः पटलः । अथ लिनं स्थूलमूलं स्थूलमध्यं कृशं तथा । आर्षे स्थूलशिरस्कं च चतुर्वेति मयोदितम् ॥ १ ॥ लिङ्गव्यासेऽष्टघा भक्ते मूले मध्याप्रयोरपि । भागाधिकं च हीनं च स्थूलमूलादिकं स्मृतम् ॥ २ ॥ वेदाश्री ब्रह्मविष्ण्वंशौ. लिङ्गेष्वार्षेषु संमतौ । शिवांशो वृत्त एव स्याच्छिरसो वा न वर्तनम् ॥ ३ ॥ अथ स्वयम्भुलिङ्गानि जर्झराणि कृशानि च । इस्वानि चातिदीर्घाणि फलकासदृशानि च ॥ ४ ॥ अनेकाग्राणिं गोकर्णमातुलुङ्गनिभान्यपि । षट्पञ्चत्रिदशामाणि मानोन्मान्मदिभिर्विना ॥ ५ ॥