पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अत्र मयः इति । ईशान शिवगुरुदेवपद्धती शृङ्गामाण्यपि वक्रांणि नानावर्णाकृतीनि च । सपीठान्यप्यपीठानि साळयान्यगृहाणि वा ॥ ६ ॥ वनपर्वतनद्यब्धितीर्थक्षेत्रगतान्यपि । दर्शनस्पर्शनार्चाभिरेषां सिद्धिरनुचमा ॥ ७ ॥ विद्यात् स्वयम्भुलिङ्गानि येषु नित्यं स्थितः शिवः | मूलं न शोधयेत् तेषां शोधनं सर्वनाशकृत् ॥ ८ ॥ अमीमांस्यानि तान्याहुः पूज्यान्येव यथास्थिति । नैषां मूर्तिविभागोऽस्ति न च स्यान्मन्त्रसङ्करः ॥ ९ ॥ मानुषेष्वेव लिङ्गेषु मन्त्रमूर्त्यादिसङ्करः । “आस्थापनमपि लिङ्गं पूजाभागेन पीठभागसमम् । वृत्तं वाथ सधारं पूजाभाग तु पूजयेन्मुक्तयै ॥" बाणलिङ्गं तु यत् सर्वे यथाजातं निधापयेत् ॥ १० ॥ स्वोच्चा बाथ रामांशं पञ्चांशं वा द्विभागिकम् | पीठे सलक्षणे शैले सौधे वा स्थापयेच्छुभे ॥ ११ ॥ अत्र योगशिवीये - 61 "कोट्यस्तिस्रस्तु लिङ्गाद्रौ तिस्रः श्रीपर्वते स्थिताः । तिसश्च कालिकागर्ते तिस्रश्चाप्यमरेश्वरे || . कन्यातीर्थे महेन्द्रादौ नेपाले कन्यकाश्रमे । एव्वेकैका स्थिता कोटिरेवं कोट्यस्तु षोडश || सपीठं वाप्यपीठं वा सर्वप्रासादपीठगम् । - सर्वसहरहनं तत् सर्वेषां भुक्तिमुक्तिदम् ॥ पूजयेद् बाणलिङ्गं तत् प्रतिष्ठाप्य विधानतः । अन्यान्यपि च लिङ्गानि नद्यब्धिगिरिजान्यपि ॥ भकतानि विशिष्टानि पूज्यान्येव हि बाणवत् । मूर्ध्नि क्षतं स्याचेद्राज्ञः कर्तुश्च नाशनम् ॥ [क्रियापद