पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तराधे अटात्रिंशः पटलः । छिद्रं माय सुतं शङ्ख वक्त्रे हन्याच्च शिल्पिनम् । मध्ये दुःखं च दुर्भिक्षं कोटरे वृष्टिनाशनम् ॥ अत्यायतं चातिह्रस्वं कृशं स्थूलं नृपान्तकृत् ।" हक्षणोद्वाराधिकारः] अथ लक्षणोद्धार उच्यते- पर्याप्तकर्म यल्लिङ्गं शाणाभिर्वालुकादिभिः । गोबालरज्जुभिश्चैव घर्षयेन्निव्रणं समम् ॥ १२ ॥ मुकुरोदरवच्छलक्ष्णं दृश्यच्छायं सुवर्तुलम् । ततः शुद्धाम्बुगोक्षीरनालिकेरे सुवारिभिः ॥ १३ ॥ प्रक्षाल्य तीर्थतोयैश्च प्रोक्तचिह्नानि लक्षयेत् । रज: सर्षप्रमात्रं चेद् यत्र स्युः स्वर्णबिन्दवः || १४ || लिङ्गे वा पिण्डिकायां वा सर्ववर्णहितावहाः । अल्पदोषमपि त्याज्यं लिङ्गं पीठं च तद् भवेत् ॥ १५ ॥ निर्दोषमन्यत् सम्पाद्य लक्षणोद्धारमाचरेत् । तिथिनक्षत्रकरणमुहूर्तादौ गुणान्विते ॥ १६ ॥ मूलात् प्राच्यामुदीच्यां वा कृत्वा वेदाश्रमण्डपम् । सवितान चतुर्द्वारं मदीपाद्यैरलङ्कृतम् ॥ १७ ॥ तन्मध्ये स्थण्डिलं कृत्वा शालिभिः शुक्कतण्डुलैः । सितवस्त्रयुगास्तीर्णे तस्मिल्लिङ्गं तु शाययेत् ॥ १८ ॥ आचार्यः स्थपतिश्चोभौ सुस्नातौ संमलङ्कृतौ । प्राक्छिरस्कं तु तल्लिङ्गं नमस्कृत्याभिपूज्य च ॥ १९ ॥ ध्यात्वा तस्मिञ्च्छिवं सूक्ष्ममनेनाभिप्रसादयेत् । अज्ञानाद् वा मया ज्ञानात् त्वयि यद् दुरनुष्ठितम् ॥ २० ॥ तत् सर्वमिह सर्वात्मन् ! क्षन्तुमर्हसि शङ्कर ! | इत्यनुज्ञाप्य देवेश लिङ्गे लक्षणमुद्धरेत् ॥ २१ ॥ आचार्यः प्रथमं तत्र नेत्रमन्त्रमनुस्मरन् । लिखेन्मध्ये ब्रह्मसूत्रं पार्श्वसूत्रे शिवास्त्रतः ॥ २२ ॥ ३७५