पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भत्र भयः इति । ईशान शिवगुरुदेवपद्धतौ ततः सुवर्णशस्त्रेण स्थपतिलघुहस्तवान् । लघुशस्त्रेण च समं सूत्राण्यालम्बयेत् स्फुटम् ॥ २३ ॥ मध्वाज्यदुग्धैः सहितैर्विलिख्याहतवाससा । आच्छाद्य तु सवत्सां गां द्विजं स्वर्णं च कन्यकाम् ॥ २४ ॥ दर्शयेद् धान्यराशिं च गन्धाद्यैश्चाभिपूजयेत् । "प्रथमे नागरलिङ्गे षोडशभागीकृते शिवायामे | षड्भूतवेदभागांस्त्यक्त्वोर्ध्वे कन्यसाद्युदयम् ॥ एवं त्रिकमुत्सेधं बुद्ध्यथ व्यंशकात् तु सर्वेषाम् । विष्ण्वंशाभिमुखे द्वे सूत्रे संलम्बयेत् पार्श्वे ॥ पृष्ठे तयोर्युतिः स्याद्वीने वेदाग्निदत्रेषु मध्ये भूतवनानलपाशेषु युतिस्तयोः पृष्ठे ॥ ज्येष्ठे षड्भूतवनानलपाशेषूदिता तु युतिः । तेषु श्रीवैकांशं त्रिग्रंशं सूत्रविष्कम्भम् || यावदधो विष्ण्वंशः प्रोक्तोत्सेधे नयेत् तु समम् । एवं नागरलिङ्गे सूत्रं सम्यङ् मयेनोक्तम् ॥” पादोनभा गमधै वा ब्रह्मसूत्रविशालता ॥ २५ ॥ भवेद् विष्ण्वंशपर्यन्तं ब्रह्मसूत्रस्य तु स्थितिः । तदघै पार्श्वसूत्रस्य रेखा मध्ययवा भवेत् ॥२६॥ तथा द्राविडलिङ्गोचे त्रिपञ्चांशे क्रमेण तु । नन्ददिभुद्रभागोचं हीनायुश्चमिहोदितम् ॥ २७ ॥ सप्ताष्टनवभागेभ्यः क्रमात् सूत्रे तु लम्बयेत् । नीचे युगामिद्वितये मध्ये बाणयुगामिषु ॥ २८ ॥ [क्रिया पाद: द्वयोश्चाथोत्तमे लिङ्गे रसेषु श्रुतिवहिषु । युतिः स्याद् द्राविडे सूत्रव्यासः स्वांशार्धतः समः ॥ २९ ॥