106 इति । ईशानशिवगुरुवपद्धती एकैकभागवृज्या नवहस्तान्ते तु लिङ्गे तु । अष्टयवान्तरंगाढा सा रेखा सम्यगुद्दिष्टा || अर्धयवेनाप्युदिता रेखार्धयवेन पूर्वबद् वृद्धिः । सार्घचतुर्यवतारावनतिः श्रेष्ठे तु लिङ्गे स्यात् || मध्येमसूत्रव्यासादर्धततिः पक्षयोस्तु पृथक् सर्वासां रेखाणां व्यासावनती समे स्याताम् ॥ सामान्यं नागरादीनां सूत्रलक्षणमुच्यते । शिवायामे तु धृत्यंशे वेदांशानुपरि त्यजेत् ॥ ४१ ॥ एकादशांशैर्नालं स्यान्मुकुलं त्वेकभागतः । अघो धंशं तथा पृष्ठे मागाभ्यां तु युतिर्भवेत् ॥ ४२ ॥ अथवा षोडशांशोचे भाग्वदूर्ध्वमधस्तथा । सायं नालं दशांशैः स्वादशंशैः पाश्र्श्वयोर्युतिः ॥ ४३ ॥ पञ्चषट्सप्तभागे तु प्राम्वत् पृष्ठे युतिर्भवेत् । अविच्छिन्नमतिस्निग्ध म जर्झरमनाकुलम् ॥ ४४ ॥ लक्षणोद्धारणं कुर्याद् विपरीतं विवर्जयेत् । सूत्रेण भस्मना पूर्वमास्फाल्य मुकुलं ततः ॥ ४५ ॥ विलिख्य घटिकाग्रेण पार्श्वे सूखे लिखेत् ततः । अय सूत्रामलक्षणमुच्यते- [क्रियापाद: छत्राभमस्तके लिङ्गे सूत्रामं स्याद् गजाक्षवत् ॥ ४६ ॥ खण्डेन्दुमस्तके लिङ्गे सूत्रामं बुहुदोपमम् । लिङ्गाग्रे त्रपुषाभे तु सूत्रामं कुक्कुटाण्डवत् ॥ १७ ॥ कुक्कुटाण्डशिरोलिङ्गे सूत्रामं छत्रसन्निभम् । सामान्येन तु लिङ्गानां सूत्राप्रमथ कथ्यते ॥ ४८ ॥ कदलीमुकुलामं वा सरोजमुकुलाकृति । अश्वत्थ पत्र सडशं सामान्य हि गजोपमम् ॥ ४९ ॥
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/८१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति