पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरार्धे एकोनचरवारिंशः पटलः । अत्यष्ठ्यंशे लिङ्गनाहे भागं त्रेधा विभज्य तु | मध्यसूत्रततिव्यंशस्तदर्घ पक्षसूत्रयोः ॥ ५० ॥ लक्षणोद्धाराधिकारः । गृहीतोत्सेधमानं तु मानङ्गुलावभाजिते । वृद्धावङ्गुलिविच्छेदं परिहृत्याङ्गुलिं पुनः ॥ ५१ ॥ वर्षयित्वा तु वसुभिर्हरेन्नक्षत्रसंख्यया | अश्विन्यादीनि भानि स्युः शिष्टान्यत्र यथांक्रमम् ॥ ५२ ॥ तस्मि चतुर्गुणे नन्दैर्हत्वांशास्तस्कररादिकाः । तस्करो भोजनं शक्तिर्धनं राजा नपुंसकम् ॥ ५३ ॥ विपद् विषं समृद्धिश्चाप्यंशकाः स्युर्नव क्रमात् । तस्करश्च विपत् षण्ढो विपन्निन्द्याः परे शुभाः ॥ ५४ ॥ लिङ्गोञ्चे बसुनन्दामिगणेऽर्काशाष्टभिर्हरेत् । शिष्टं धनमृणं चैव योनिश्च स्याद् यथाक्रमम् ॥ ५५ ॥ धनाधिकं च क्षीणार्णं कर्तृभर्तृहितावहम् । ध्वजसिंहवृषे भाचेच्छुमाश्चान्ये ह्यशोभनाः ॥ ५६ ॥ शिवतुझे नवगुणे वाराः स्युर्मुनिभिर्हते । सूर्याधास्तेषु शुभदाः शुभाः क्रूरास्वशोभनाः ॥ ५७ ॥ मामादीनां तथा कर्तुर्नक्षत्रेणाविरोधि यत् । लिङ्गं राज्ञश्च देशस्य तदुक्तं सम्पदां पदम् ॥ ५८ ।। आर्षाणि लिङ्गानि च लक्षणैः स्वैः स्वायम्भुवान्यप्यनुकीर्तितानि । पूर्वोदितामामिह मानुषाणां तल्लक्षणोद्धारविधिश्च गीतः ॥ ५९ ॥ इति श्रीमदीशान शिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापदे आर्षादिलिङ्गलक्षणपट लोऽष्ठात्रिंशः । अथ एकोनचत्वारिंशः पटलः । अथ पीठानि वक्ष्यन्ते लक्षणैः स्वैः पृथग्विधैः । यैः संयोगं तु लिङ्गानां प्रतिष्ठेति विदुर्बुधाः ॥ १ ॥ एक तु जात्या स्यात् पीठं लिङ्गं च नान्यथा | शेवेच दारवे लिङ्गे स्वजातिकोण लभ्यते ॥ १ ॥