पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ इष्टकाभि: सुधाबन्ध: पीठं वा स्यात् सलक्षणम् | षण्ढेन स्यात् पादशिला स्त्रीशिला पिण्डिका भवेत् ॥ ३ ॥ लिङ्गं पुंशिलया कुर्यादिति शास्त्रस्य निश्चयः । पूजांशद्विगुणं हीनं श्रेष्ठं लिङ्गोन्नतेः समम् ॥ ४ ॥ नवैते पीठविस्तारास्तयोर्मध्येऽष्टभागिके । विस्तारार्धोन्नतं नीचं श्रेष्ठं द्वित्र्यंशकं ततः ॥ ५ ॥ विष्कम्मं त्रिगुणं वाथ नाहतुल्यविशालकम् । गर्भव्यासात् त्रिभागैकं चतुर्थाशमथापि वा ॥ ६ ॥ विष्कम्भकर्णद्विगुणं त्रिगुणं वापि विस्तृतम् । पीठं कुर्यात् तु विष्ण्वंशसमानोच्चं हि सर्वथा ॥ ७ ॥ मण्डनाय स्वविस्तारादष्टांशमधिकं ततः । सर्वेषामपि पीठानां जन्मान्तं मूलविस्तृतिः ॥ ८ ॥ पीठाग्रस्यापि विस्तारः स्यान्महापट्टिकान्तकम् । सामान्यपीठविधिः । [क्रियापाद: नागरादित्रयाणां तु पीठलक्षणमुच्यते ॥ ९ ॥ त्रिखण्डलिङ्गायामेन तुल्यव्यासमिहोत्तमम् । पीठं स्याद् द्वयंशतो नीचं तयोर्मध्येऽष्टभागिके ॥ १० ॥ पीठव्यासा नवैव स्युस्तव्यासे रामभागिके । पीठं श्रेष्ठं द्विभागोच्च नीचं व्यासार्धमुन्नतम् ॥ ११ ॥ तयोर्मध्येऽष्टभागे तु पीठोत्सेघा नवैव हि । द्राविडेऽपि त्रिखण्डेन तुल्यव्यास मिहोत्तमम् ॥ १२ ॥ लिङ्गायामे नवांशे तु सप्ताशैनींचविस्तृतिः । तयोर्मध्येऽष्टभागे तु पीठव्यासा नव स्मृताः ॥ १३ ॥ अष्टांशे ब्रह्मविष्ण्वंशे त्रिद्येकांशमधस्त्यजेत् । शेषांशोचं तु नीचादि पीठोचो द्राविडे मतः ॥ १४ ॥