पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८४ ईशान शिवगुरुदेवपद्धतौ अर्ष क्षेपणमंशौ द्वौ पट्टिकार्धेन चाज्यभृत् । सामान्यं नागरादीनां सौम्यं पीठमुदीरितम् ॥ ५२ ॥ द्वादशपठानि । 4 "सर्वेषामेव पीठानामङ्गप्रवेशनिर्गमबहुलतुल्यं त्रिपादमर्धं वा शोभा- बलवशादेव युञ्जीते" ति पराशरः । पीठव्यासात् त्रिवेदांशं नालमूलस्य विस्तृतिः । आयामस्तत्समस्तस्मात् त्रिचतुर्भागहापनात् ॥ १३ ॥ कुर्यान्नालाग्रविस्तार मुन्नताग्रमनातुरम् | नालव्यासस्य रामांशात् खातं व्याससमोन्नतिः ॥ ५४ ॥ पीठमन्ये तु कौबेर्यो नालमित्थं प्रयोजयेत् । स्यादूर्ध्वपट्टबहुलं समं पादाधिकं तु वा ॥ ५५ ॥ अध्य वाज्यभृद्रयासो मूलखातं च तत्समम् । जालिङ्गय मूलपर्यन्तं तत्क्रमेणोन्नतं भवेत् ॥ ५६ || पाठोपलं त्वैकभागेऽप्येकमेवोर्ध्वमण्डनम् । अधोमण्डनमेकं वा स्यान्नैकं चोपपत्तितः ॥ ५७ ॥ तत्र मध्यं विना कोणं सन्धयेत् सुन्दरं यथा । उपर्यशावसानं तदूर्ध्वसन्तानमाचरेत् ॥ ५८ ॥ चतुर्दश प्रकाराणि पठिानत्यिब्रवन्मियः । वेदर्तुवसुसूर्यात्रैः षोडशाश्रं च वर्तुलम् ॥ ५९ ॥ एतेषां चायतैः षड्भिस्त्रचथं चार्धेन्दुसन्निभम् । एतच्चतुर्दश | अपिच मयः - "भद्रपीठं च पद्मं च वज्रपीठं महाम्बुजम् । श्रीकरं पठिपद्मं च महावज्रं च सौम्यकम् || श्रीकाम्यं चेति नवधा पीठानि प्रभवन्ति हि ॥” तद्यथा - [क्रियापाद: पीठोत्सेधे त्रिपञ्चांशे जन्मव्यंशं युगांशकैः ॥ ६० ॥ वमं पद्मं तु सार्धेन धूगर्भ धंशतो घटः । क्षेपणमध्यर्षे कण्ठोऽर्व क्षेपणं पुनः ॥ ६९ ॥