पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नालविधिः] उत्तरार्धे एकोनचत्वारिंशः पटलंः। यंशं पट्टं तु घृतभृदर्घ स्याद् भद्रपीठके । सर्वसामान्यमेतत् । यष्टांशपीठोन्नतिदस्रबाणद्विवेददसेन्दुभिरेव पट्टम् । अब्जं च वृत्तं सुदलं च पट्टमाधारभृत्, स्यादिति पद्मपठम् ॥ ६२ ॥ पीठतुझे तु मन्वंशे सार्धे जन्मार्घतोऽवटम् ॥ .६३ ॥ सार्वत्रिभागं पद्मं स्यादर्धाभ्यां पट्टनिनके । भागो वज्रं निम्नमधै कम्पोऽर्धे त्रिभिरम्बुजम् ॥ ६४ ॥ निम्नमर्धे ततोऽध्यर्धात् पट्टिकार्धेन चाज्यभृत् । वज्रपद्माह्वयं पीठं सर्वलिङ्गसमं भवेत् ॥ ६५ ॥ धृत्यंशे पीठतुङ्गे तु द्वयर्षं जन्माथ पङ्कजम् । चतुर्भिः पट्टमर्धं स्थादर्धं निम्नं तु सार्धतः ॥ ६६ ॥ पद्मं द्व्यर्धेन वृत्तं स्यादर्घार्धेऽब्जं च निम्नकम् । त्रिभिरुर्ध्वाम्बुजं पट्टममध्यर्धमम्बुजम् ॥ ६७ ॥ श्रीपट्टस्नेहभृच्चा महापद्माह्वयं भवेत् । मानुषार्षलिङ्गानां समानमेतत् । पीठोत्सेषे षोडशांशे चन्द्रामिश्रुतिसंख्यया ॥ ६८ ॥ जन्मवमं च पद्मं च धृगधै यंशवर्तुलम् । अर्ध धृक् पङ्कजं त्र्यंशं पट्टिका सार्धभागिका ॥ ६९ ॥ घृतवार्यर्धतः स्वातं तावत् व्यंशं तु नालकम् । तयासनिर्गमौ त्र्यंशौ तथाग्रं श्रीकरं स्मृतम् ॥ ७० ॥ पत्यंशोचे सार्धमर्धद्वयार्धं त्रीण्यधनि व्यर्धके स्यात् खुरं च । निम्नं पद्म पट्टनिम्ने च पट्टमब्जं निम्नं पट्टनिम्नेऽब्जपीठे ॥ ७१ ॥ त्रिपञ्चांशे तु पीठोच्चे दध्यर्धाभ्यर्धकेन्दुभिः । अध्यर्धेन्द्वर्घसार्धाश्विभागैरध्यर्घकार्धकैः ॥ ७२ ॥ जन्मनिम्नाब्जपट्टानि धृग्वज्रं धृगतः परम् । क्षेपणाम्भोजपट्टानि निम्नं चेति यथाक्रमम् ॥ ७३ ॥ महावज्रं तु पीठं तद् वृत्तवज्रेण सौम्यकम् । पीठोत्सेधे तु सूर्योशे चन्द्रनेत्रार्धभागतः ॥ ७४ ॥