पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८६ अत्र ईशानाशवगुरुदेवपद्धतौ सार्घार्घाश्च सार्धेन तथाधाधार्धकार्धकैः । अध्यर्धेन तथार्धेन जन्मपद्मकनिम्नकम् ॥ ७५ । अब्जं धृक् च दलं वृत्तं पद्मं धृक् कमलं ततः । पट्टिकानिम्नकं पट्टं श्रीकाम्ये तु क्रमाद् भवेत् ॥ ७६ ॥ “धाम्नि प्रोक्तान्यप्यधिष्ठानकानि तान्यप्यस्मिन् मण्डनीयानि युक्त्या । " इति मयः । यथाबलं यथाशोभं यथायुक्ति प्रवेशनम् । निर्गमं चापि पीठानामङ्गानां परिकल्पयेत् ॥ ७७ ॥ पीठव्यास (स्य) त्र्यंशैकं वेदांशैकमथापि वा । स्यान्निर्गम: प्रणालस्य मूलव्यासं च तत्समम् ॥ ७८ ॥ मूलादर्धे त्रिभागं वा प्रणालामविशालता । गजौष्ठाकारमथवा गोमुखाभं च तद् भवेत् ॥ ७९ ॥ मूलाप्रविपुलं त्र्यंशव्यासं तत्खात निम्नकम् । इष्टदिङ्मुखलिङ्गानां प्रणालं पीठमध्यतः ॥ ८७ ॥ वामभागे तु तत् कुर्यात् साधारं वा यथारुचि । अपस्य विस्तारं सोच्चतुल्यं प्रकल्पयेत् ॥ ८१ ॥ सपादं वाथवा सार्धं सत्रिपादमथापि वा । यथाबलं तत् पट्टस्य सर्मं खातं तु मूलतः ॥ ८२ ॥ क्रमेणोन्नतिमलिङ्गसङ्गमात् तत् प्रकल्पयेत् । ज्यामुखं स्वर्धचन्द्राख्ये पीठे स्याद् द्वारसम्मुखम् ॥ ८३ ॥ म द्वारसम्मुखं कोणं कुर्यात् पीठे त्रिकोणके | द्वारसूत्रस्य पीठाचं वेषसं न प्रशस्यते ॥ ८४ ॥ शिवभागं स्वषः पीठात् किञ्चिदण्यवलम्बितम् । उन्नतोऽपि च दोषाय स्यात् तत् परिहरेत् ततः ॥ ८५॥ निस्सन्धिकं भवेत् पीठं प्रशस्तं शिलयैकया | सदलाभेऽप्येकयैब प्रकुर्यादूर्ध्वमण्डनम् ॥ ८६ ॥