पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पादशिलालक्षणम् ] उत्तरार्धे एकोनचत्वारिंशः पटलः । उपर्युपरि पीठानां सन्धिरङ्गावसानके । नालमध्ये तथा मध्ये कर्णे सन्धिर्न शस्यते ॥ ८६ ।। युञ्जीयाद् दक्षिणे वामे दीर्घादीर्घ यथाक्रमम् । त्रिखण्डं नैकखण्डं वा युक्तया कुर्यादघोगतम् ॥ ८७ ।। लिङ्गायामसमव्यासा श्रेष्ठा ब्रह्मशिला स्मृता | पूजांशद्विगुणा नीचा तयोर्मध्येऽष्टभागिके ।। ८८ ।। प्राग्वन्नवप्रकाराः स्युः क्रमाद् ब्रह्मशिल: सुभाः । स्वव्यासार्धोन्नता मुख्या नीचा वेदांशतो घनाः ॥ ८९ ॥ तयोर्मध्येऽष्टधा भक्ते घनाद् ब्रह्मशिला नव । अथवा लिङ्गविष्कम्भाच्छ्रेष्ठा स्याद् द्विगुणा घनात् ॥ १० ॥ बिस्ताराध्यर्घतो नीचा भवेद् ब्रह्मशिला कचित् | खातं ब्रह्मशिलामध्ये ब्रह्मभागोपमं भवेत् ॥ ९१ ॥ प्रविशेद् ब्रह्मभागस्तु नीरन्धं च यथा भवेत् । रत्नन्यासान्वितं श्लिष्टं लिङ्गमूलेन तद् भवेत् ॥ १२ ॥ नन्द्यावर्तसमाकाराश्चतस्रस्तु शिलाः क्रमात् । पीठब्रह्मात्मनोर्मध्ये प्रादक्षिण्येन योजयेत् ॥ ९३ ।। स्थानासन विभागेन प्रतिमानां परेपरे । एकद्वित्रिचतुःपञ्चषण्मात्रं वाधिकं ततः ॥ ९४ ।। आसनानां स्वविस्तारादष्टभागाधिकायतिः । द्विगुणान्तं निजायामा मण्डनं पिण्डिकास्विव ॥ ९५ ॥ रामवेदेषुभागे।चे बैरदैर्ध्वे क्रमेण तु । विष्टरस्योदयः प्रोक्तः शयने वासने स्थिते ।। ९६ ॥ यथोचितं तथा दैर्घ्यं व्यासश्च शयने स्मृतः । ब्रह्मविष्णुशिवानां च (शौ ? गौ)र्यादीनां तथासनम् ।। ९७।। सोपपीठं गुहाङ्‌ङ्घ्रिस्थसिंहासंहासनं स्मृतम् । दैवार्षकाणां बाणानां लिङ्गानां च स्वयम्भुवाम् ॥ ९८ ॥ M ३८७