पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८ ईशान शिव गुरुदेवपद्धतौ प्रासादरूपं पीठं वा यथेष्टं कारयेद् बुधः । अथ नागरादित्रयाणां पादशिलालक्षणमुच्यते- द्विगुणं लिङ्गविस्ताराद् विस्तृतं वेदभागतः ॥ १९ ॥ तुङ्गं व्यासत्रिपादांशाद् भवेल्लिङ्गे तु नागरे । गर्भकर्णचतुर्थांशव्यासा श्रेष्ठायतस्य तु ॥ १०० ॥ व्यासाघर्धविहीना स्यान्नीचा मध्येऽष्टधा तयोः | भक्ते तु नवधा ब्रह्मशिलाः स्युर्द्राविडे शिवे ॥ १०१ ॥ व्यासार्धं तत्रिपादोनं तयोर्मध्येऽष्टभाजिते । तुझं ब्रह्मशिलायाः स्यान्नबंधा द्राविडाह्वये ।। १०२ ॥ अथ गर्भगृहार्थेन त्रिचतुर्भागविस्तृता | व्यासाघवेदभागोच्या प्राग्वन्मध्येऽष्टभाजिते ॥ १०३ ॥ नव ब्रह्मशिलाः प्रोक्ता लिङ्गब्रह्मांशतोऽवटम् । द्वियवाधिक विस्तारं विस्ताराष्टांशतः स्मृतम् ॥ १०४ ॥ मूलेऽवटाभं रत्लाढ्यं वैसरव्यापि तद् भवेत् । इत्थमसौ पीठविधिनैंकविधो लक्षणतः । प्रोक्त इहालङ्करणैस्त्याष्ट्रविदां प्रीतिकरः ॥ १०५ ॥ [क्रियापाद: - इति श्रीमदीशानशिवगुरुदेवनद्धतौ सिद्धान्तसारे उपरिभागे क्रियापदे 'पीठविधिलक्षणपटल एकोनचत्वारिंशः । अथ चत्वारिंशः पटलः । अथोक्ताव्यक्तलिङ्गे तु शिवांशे दशभागिके । अश्विनेत्राग्निभागैः स्यात् स्कन्धः कण्ठस्तथाननम् ॥ १ ॥ उष्णीषोंऽशस्तु मकुटं धंशमूर्ध्व तु भागतः । भागेन मुखविष्कम्भो विस्तृतश्चोर्ध्वलिङ्गवत् ॥ २ ॥ ललाटकर्णभ्रूनेत्रघ्राणगन्धमुखादिकम् । मानोन्मानप्रमाणेन सर्वे सकलवत् स्मृतम् ॥ ३ ॥