पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तथा योगशिवपद्धतौ च M इति । "बाण कोणगुणाश्व्येकमुखलिङ्गानि तु क्रमात् । चतुस्त्र्येकाननं भूत्यै पञ्चास्यं चाभिचारिके || द्विमुखं चारिनाशाय स्थाप्यं शैलवनादिषु । सितोत्तानं त्रिणेत्रं च मौलिकुण्डलमण्डितम् ॥ ईशानं लिङ्गमूर्ध्नि स्यादूर्ध्वाभिमुखमेव तत् ॥” अत्र मयः ३ शाम शिवगुरुदेवपद्धती अथ स्फाटिकलिङ्गमुच्यते- अव्यक्तस्यैव लिङ्गस्य कुर्यात् पीठादिकं समम् । मृवृक्षाश्ममयं लिङ्गं सर्वसिद्धिप्रदं सदा ॥ १४ ॥ मृन्मये हेमरत्नादि मध्ये संस्थाप्य कारयेत् । सर्वेषां मुखलिङ्गानां निर्गम: स्यात् पृथक् पृथक् ॥ १५ ॥ प्रविष्टा कन्धरा कार्या विष्णुभागोपरिस्थिता । हस्तादिपञ्चहस्तान्तं मुखलिङ्गं प्रकल्पयेत् ॥ १६ ॥ अतः परं न कुर्वीत मिश्रलिङ्गं शुभेच्छया । मुखलिङ्गविधिः लिङ्गषट्कमिति यावत् । एकाङ्गुलं समारभ्य क्रमाङ्गुलविवर्धनात् ॥ १७ ॥ षडङ्गुलान्तं स्फटिकलिङ्गषट्कमिहाधमम् । सप्ताङ्गुलादिकं लिङ्गं मध्यमा द्वादशाङ्गुलात् ॥ १८ ॥ त्रयोदशाङ्गुलादीनि लिङ्गान्याष्टादशाङ्गुलात् । उत्तमानि भवन्त्येषु मानं मात्राङ्गुलेन हि ॥ १९ ॥ PROD [क्रियापाद: “तद्धीनादर्धमात्रेण वृद्धयैकादशसंख्यया । श्रेष्ठे मध्येऽवरे लिङ्गे त्रयस्त्रिंशत् समुन्नतम् || पूजांशार्धं त्रिभागैकं गाढं वा स्फाटिकं मतम् । समं त्रिपादमर्धे वा पूजांशोच्चस्य विस्तृतिः ॥