पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मलि हाधिकार: ] उत्तरार्धे चत्वारिंशः पटलः । सधारं वाथ वृत्तं वा लिङ्गं स्यात् स्फाटिकं शुभम् । शिरोवर्तनकं प्राग्वद् ब्रह्मसूत्रं न वा भवेत् ॥ ब्रह्मसूत्रं विनाप्येतत् तेजोद्रव्यं वरप्रदम् । " इति । स्वव्यासद्विगुणं सार्धेद्विगुणं त्रिगुणं ततः । नीचं मध्यं च मुख्यं च पीठैनालं हि पूर्ववत् ॥ २० ॥ पूजांशोच्चसमं वार्धं त्रिपादं पैण्डिकोच्छ्रयः । मण्डनं निष्कलोक्तं हि पीठेषु स्फाटिकेष्वपि ॥ २१ ॥ स्फाटिकैकशिलापीठलिङ्ग श्रेष्ठं स्वयोनिकम् । स्फटिकान्यशिलापीठं लिङ्गं मध्यं स्वयोनिकम् ॥ २२ ॥ स्वयोन्यभावे हैमं स्याद् राजतं ताम्रजं तु वा । पीठं कनिष्ठं तत्रापि हैमाद्यं तूत्तमादिकम् || २३ || रत्नानां स्फटिकादीनां दोषान् परिहरेद् बुधः । सर्वनाशकरं यस्मात् सदोषं तं न पूजयेत् ॥ २४ ॥ द्वादशैव स्मृता दोषाः स्फटिकादिषु तद् यथा । रेखा बिन्दुः कलङ्कश्च त्रासः काकपदं क्षतम् ॥ २५ ॥ स्वद्योतो मक्षिकाच्छायभेदः सन्धिस्तुषाकरः । निम्नमस्तकता चेति रत्नदोषास्तु वर्जिताः ॥ २६ ॥ पद्मरागादिरत्नानां दोषान् परिहरेदिमान् । पद्मरागादिलिङ्गानां पीठं श्रेष्ठं स्वयोनिकम् ॥ २७॥ तदभावे हिरण्यादिपीठं स्यादुत्तमादिकम् । एकाङ्गुलादिद्वियववर्धनेना षडङ्गुलात् ॥ २८ ॥ मध्यानि नव लिङ्गानि रत्नजानीह कल्पयेत् । सप्ताङ्गुलादिद्वियववर्धनेना नवाझुलात् ॥ २९ ॥ श्रेष्ठानि नव लिङ्गानि रत्नजानि भवन्ति हि । कनिष्ठमध्यलिङ्गानि रत्नाने स्फाटिकान्यपि ॥ ३० ॥ १. 'ठं' ख. पाठः.