पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उसमदशतालपुरुषमानावधि:] उत्तरार्धे एकचत्वारिंशः पटलः । • धातुवर्णाद्यमालेख्यं सकलं तच्चलाचलम् । सर्वं च चित्रं चित्रार्धे चित्राभासमिति त्रिधा ॥ ३ ॥ सर्वाङ्गदृश्यं यच्चित्रं चित्रार्धे चार्घदर्शनात् । लिखितं पटभित्त्यादौ चित्राभासाह्वयं स्मृतम् || ४ || चित्रादीनां तु बेराणां श्रेष्ठमध्याधनं फलम् । लिङ्गगर्भगृहद्वारस्तम्भाघिष्ठानकिकुभिः तालमूलाङ्गुलेश्चाथ मानें मानाङ्गुलैरपि । ॥ ५ ॥ यजमानोचतो मानमित्येकादशधा स्मृतम् ॥ ६ ।। तद् यथा - पूजांशोच्चं च नाहं विततिमपि पृथग् यष्टभागं तु कृत्वा तैरेवांशै स्त्रिभेदैर्गुणशरमुनिभिर्नन्दरुद्रांशकैर्वा । न्यूनं चैवाधिकं वा सममपि कथितं लिङ्गतो बेरमानं भेदैर्गीर्वाणसंख्यैर्नवविधमपि तद् गर्भगेहे नवांशे ॥ ७ ॥ द्वाराधिष्ठानपादानां समं पादाधिकं तु वा । पादहीनमथैतेषां द्र्यन्तरे वेदभागिके ॥ ८ ॥ पृथक् कृत्वाऽथ तैरंशैः स्यान्मानं नवधा पृथक् । हस्तादिनवहस्तान्तं तन्मानं नवधा स्मृतम् ॥ ९ ॥ तालादि नवतालान्तं तालमानं च कीर्तितम् । पूजांशांचे चतुर्विंशत्यधिकं शतभागिके ।। १० ।। मूलबेराङ्गुलं भागस्तेन बेरोच्च नयेत् । मूलबेराङ्गुलकृतप्रतिमायास्तदङ्गुलैः ॥ ११ ॥ गणयेद् योनिभागाद्यम न्यथा चेद् विनाशकृत् । तिर्यग्यवोदरैः षड्भिः सप्तभिश्चाष्टभिः क्रमात् ।। १२ ।। कनिष्ठं मध्यमं श्रेष्ठं स्मृतं मानाङ्गुलं पृथक् । शाल्यायतैस्त्रिभिस्तैश्च साधैम्तैर्वेदसम्मितैः ॥ १३ ॥ मानाङ्गुलानि चाप्येवं कनिष्ठादीनि कल्पयेत् | तद्भुर्तुदक्षिणकरे मध्यमान्मध्यपर्वणः ॥ १४ ॥