पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तमदशताल पुरुषमानविधिः ] उत्तरार्ध एकचत्वारिंशः पटलः । ध्वजसिंहवृषेभाख्या योनयः शोभनाः स्मृताः । तथैवाशोभना वर्ज्या धूमश्व खरवायसाः ॥ २८ ॥ नक्षत्राण्याश्विनादीनि यजमानदिनादितः । जन्मसम्पद्विपत् क्षेम: प्रत्यरं साधको वधः ॥ २९ ॥ मैत्रं परममैत्रं च जन्मेत्याद्यं पुनः पुनः । सम्पत्साधकमैत्राणि क्षेमं परममैत्रकम् || ३० || जन्माख्यं च शुभानि म्युरशुभानीतराणि तु | चन्द्रज्ञगुरुशुक्राणां वाराः शस्तास्तु नेतरे ॥ ३१ ॥ धनाधिकं च हीना श्रेष्ठं मध्यं समं यदा | ऋणाधिकं चेद् वर्ज्य स्याद् विपत्तस्करपण्डकाः ॥ ३२ ॥ निन्यास्तादीतरे सर्वे श्रेष्ठा ग्रायाः स्युरंशकाः । तस्करो भुक्तिशक्ती च घमां राजा नपुसकम् ॥ ३३ ॥ अभयं च विपच्चैव समृद्धिश्च नत्र क्रमात् । ग्रामवास्तुनृपादीनां यजमानस्य चाप्त ॥ ३४ ॥ उक्तमानविभागेन योन्यादिघटनां नयेत् । प्रस्तुतप्रतिमोत्सेधं त्रिंशदंशादितः क्रमात् ॥ ३५ ॥ शतांशान्तं विभज्यैषु भागैरन्यतमैर्बुधः । योनितारादिषटनां योजयेच्छोभनं यथा || ३६ || देवादीनां तथान्येषां वेरमानं पृथक पृथक | मानं प्रमाणमुन्मानं परिमाणं तथा पुनः || ३७ || उपमानं लम्बमानमिति मानं तु षड्डिधम् । बेरायामस्तु मानं स्यात् प्रमाणं तिर्यगर्पितम् ||३८ ।। उन्मानं तु तदावृत्तिर्नाहस्तु परिमाणकम् | निम्नोन्नतं तूपमानं लम्बमानं प्रलम्बितम् ॥ ३९ ॥ श्रेष्ठेन दशतालेन शिवकेशववेवसाम् । मध्येन दशतालेन गौरीलक्ष्मीगिरां मतम् ॥ ४२ ।। १. 'वे' क. पाठः