पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०६ ईशानशिवगुरुदेवपद्धतौ दुर्गायाश्चापि मातॄणां मध्येनैव प्रकल्पयेत् । मध्येन दशतालेन त्रिमूर्तीव प्रकल्पयेत् ॥ ४१ ॥ तद्देवीनां तदा मानं कनिष्ठदशतालतः । सूर्येन्द्रस्कन्द्रचन्द्राणां चण्डक्षेत्रेश नन्दिनम् ॥ ४२ ॥ ऋषीणां चाश्विनोः शास्तु: कनिष्ठदशतालतः । लोकपालाष्टमूर्तीश विद्येशवसुभोगिनाम् ॥ १३ ॥ रुद्राणां चैव मानं स्यादुत्तमान्नवतालतः । मरुद्गणानप्सरसोऽप्यस्त्रमूर्तीश्च गुह्यकान् ॥ ४४ ॥ मध्येन नवतालेन कुर्याद् विद्याधरान् पितॄन् । सिद्धानसुरगन्धर्वान् कनिष्ठनवतालतः ॥ ४५ ॥ गणेशं वामनं चाथ पञ्ञ्चतालाख्यमानतः । चतुस्तालेन भूतानि त्रितालाद पक्षकिचरान् ॥ ४६ ॥ द्वितालेनैव कुश्माण्ड स्तालात् कूर्माकृति हरिम् । प्रतिमाकरणं तत्तद्दे लब्धाङ्गुलेन तु ॥ १७ ॥ सिध्येत् तत्रोच्यते पूर्वमुत्तमं दशतालकम् । तदुत्सेधे चतुर्विंशत्यधिकं शतभागिके ॥ १८ ॥ एकांशो देहलब्घाख्यमङ्गुलं तदथाष्टवां । विभज्य विद्यादेकांशं यवमेवं परत्र च ॥ ४९ ॥ मध्यमे दशताले तु सर्विंशतिशतांशतः । सविकारशतांशेंऽशः कनिष्ठदशतालके ॥ ५० ॥ अष्टेत्तिरशतांशेऽशो नवतालोत्तमेऽङ्गुलम् | स वेदांशशतांशेंऽशो नवताले तु मध्यमे ॥ ५१ ॥ शतांशेंऽशोऽङ्गुलं ज्ञेयं कनिष्ठनवतालकें । षण्णवत्यंशर्केऽशः स्याच्छ्रेष्ठे तु वसुतालके ॥ ५२ ॥ •प्रतिवेदाङ्गुलहासादेतन्मध्याधमे स्मृते । स्वस्वतालविभागेन सप्ततालादिषु क्रमात् ॥ ५३ ।। 'ब' क. पाठ: [क्रियापाद: