अथ षोडशः पटलः । अथ प्रक्षीणदोषाणां शिवानुध्यानयोगतः । शक्तिपातो भवेत् तेन घीप्रसादस्ततोऽपिच ॥ १ ॥ गुरूपसदनं तस्माच्छिवदीक्षाभिलभ्यते । मलं कर्म च माया च पाशबन्धस्य हेतवः ॥ २ ॥ तद्विशेषाच्छिवज्ञानमनुग्रामस्य जायते । सा दीक्षा दी क्षयेत्यस्माद्धातोः पाशक्षयो यतः ॥ ३ ॥ दीक्षेति कथ्यते जन्तोरनुग्राह्यस्य वै पशोः । तत्रानुग्राह्यस्त्रिविधो विज्ञानकलः प्रलयाकलः सकलश्चेति । मलैकबन्धः प्रथमो द्वितीयो मलकर्मवान् ॥ ४ ॥ कर्ममायामलैर्युक्तस्तृतीयः सकलः स्मृतः । विज्ञानं विपरीतात्मज्ञानमज्ञानमेव तत् ॥ ५ ॥ कलबन्धनधात्वर्थाद् विज्ञानकल उच्यते । अज्ञानात् (क) र्मबद्धोऽसौ प्रलयाकल इत्यतः ॥ ६ ॥ प्रकर्षात् तु लयं प्राप्तं ज्ञानमस्येति कथ्यते । त्रिविधैस्तु तथा बन्धैर्मायाकर्ममलाह्वयैः ॥ ७ ॥ वर्तमानः सहेत्यस्मात् सकलो यः स कथ्यते । एते शिवस्यानुग्राह्याः श्रेष्ठमध्याधमास्त्रयः ॥ ८ ॥ ( अनुग्रहो ऽपि द्विविधः शिवस्य करुणानिधेः | साधारश्च निराधारोऽनुग्राह्यानुगुणः पृथक् ॥ ९ ॥ -- अत्र निराधारसाधारानुग्रहानुगुणा दीक्षा | दीक्षा च निरधिकरणा सा- धिकरणा चेति द्विप्रकारा | यथाह भोजराजः - "आचार्यनिरपेक्षेण भगवता स्वशक्त्यानुग्रहरूपया तीव्रतीव्रतरशक्तिपातेन विज्ञानकलप्रलयाकलानां या क्रियते सा दीक्षा निरधिकरणा | यत्राचार्यमूर्तिस्थेन भगवता मन्दमन्दतरती - ब्रशक्तिपातेन क्रियमाणा सकलानां (सा) साधिकरणा" (इति ) । सा च स- बीजा निर्बीजा चेत्यधिकारवशात् । T
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१४४
एतत् पृष्ठम् परिष्कृतम् अस्ति