ईशानशिवगुरुदेवपद्धतौ [क्रिया पादः भ्रूमध्याम्भोरुहे बिन्दौ शिवध्यानेन चास्य तु । आत्मशुद्धिं समापाद्य गन्धालिप्तकरः स्वयम् || ६३ ॥ शिवहस्तं विधाय स्वे वामपाण्यम्बुजे स्मरन् । आसनादिक्रमात् साङ्गं शिवं सम्पूज्य वै घिया || ६४ ॥ व ह्रद्वीजमूलहंसाढ्यं तस्मिन् विन्यस्य चेतसा | तं हस्तं शिष्यहृदये विन्यसेत् प्रथमं ततः ॥ ६५ ॥ हृदादिग्रन्थिमेदार्थ क्रमात् तत्कण्ठतालुगम् । भ्रूमध्यगं च मूर्ध्निस्थं कुर्याद् रुद्रपदाप्तये ॥ ६६ ॥ तदनु शिष्यस्य पाण्योः पुष्पाञ्जलिं गन्धपुष्पाधिवासितं कृत्वोत्थाय देवाग्रे शिष्यमूर्ध्वकायं देवाभिमुख संस्थाप्य स्वयमुदङ्मुखस्तिष्ठन् पशोस्तिरो- धायक नेत्रबन्धं ध्यात्वा ज्ञानासिना पाशुपतास्त्रेण नेत्रबन्धमपनीय पुष्पाञ्जलिं क्षिपेत्युक्त्वा तमञ्जलिं मण्डले पातयेत् । बद्धनेत्र एव पुष्पाञ्जलिं क्षिपेदिति केचित् । तत्र मूर्त्यङ्गादिषु यत्र पति पुष्पाञ्जलिस्तन्नामधेयान्तं (१) कुर्यात् । शिवान्तं ब्राह्मणस्य स्याद् देवगणान्तमन्ययोः । शूद्रस्य मुनिशब्दान्तं नाम कुर्याद् यथाक्रमम् ॥ ६७ ॥ तस्याष्टाङ्गनमस्कारमुपदिश्य प्रणामयेत् । अत्र भोजराजपक्षे तु प्रदक्षिणानन्तरं पुष्पाञ्जलिं (प्रक्षिप्यान)न्तरमुप- वेश्य शिष्यं धारणाभिर्विशोध्य सकलीकृत्य शिवहस्तं विन्यसेदिति। नैतन्मू- लागमसम्मतं, यतो धारणाभिर्विशुद्धस्यैव मण्डलस्थविशिष्टाशेवे पुष्पाञ्जलि- प्रक्षेपाधिकार इत्यतः प्रागुक्त एव पक्षो ब्रह्मशम्भुना च स्वीकृतः । तदनु शि- वकुम्भायाग्नये च पुष्पाञ्जलि पूर्व नमस्कारमुपदिश्य कुण्डाद् वायव्यभागे प्रा- ग्वत् कल्पितासने शिष्यं निवेश्य मन्त्रसहितयाज्येन हुत्वा सम्पात्य शिष्यस्या. त्मनश्च नाडीसन्धानं विदध्यात् । तत्र दर्भमूलं स्वजङ्घासन्धौ गृहीत्वा दर्भाग्रं शिष्यहस्ते दद्यात् । विपरीतमिति भोजराजः । , अथ शिष्यस्येडापिङ्गलासुषुम्नानाडी: स्वनाडीः प्रविष्टाः सम्भाव्य मूलेनाहुतित्रयं पञ्चकं वा हुत्वा तचैतन्यग्रहणाय प्रवेशनिर्गमौ विधायाष्टशत- मूलेन दशांशेनाङ्गमूर्तीनां हुत्वा पूर्णा च विधाय प्रायश्चित्तार्थं पुनरष्टोत्तरशतं मूलेन हुत्वा तदीयां प्राक्तनजातिमुद्धरेत् ।
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१५३
एतत् पृष्ठम् परिष्कृतम् अस्ति