एतत् पृष्ठम् परिष्कृतम् अस्ति
शीर्षकपाठ्यांशः
________________
अथ विंशः पटलः । अथ प्रमादस्खलितविस्मृतिच्युतजन्मनाम् ।
दोषाणां प्रशमायात्र प्रायश्चित्तं निगद्यते ॥ १ ॥
हस्तान्निपतिते लिने स्पृष्टेऽन्यैर्वाप्यदीक्षितैः । अघोरायुतजापी स्यात् सविशेषार्चनाच्छुचिः ॥ २ ॥
विशेषार्चनशब्देन पञ्चगव्यपञ्चामृतस्नपनमहानैवेद्याभिकार्यान्तमर्च-
येदिति यावत् । द्विहस्तात् पतिते लक्षं जपेत् सम्प्रोक्षणात् परम् ।
द्वित्रिलक्षादिजापी स्यादतश्चच्चात् पतेद् यदि ॥ ३॥ भिन्ने लिङ्गेऽथवा पीठे प्रायश्चित्तं न विद्यते । तत एवाप्र ( मो ! मा) देन रक्षणीयं प्रयत्नतः ॥ ४ ॥ तथा विशीर्णलिङ्गादेर्महापातकशान्तये ।
प्रायश्चित्तं दशगुणं कृत्वा कृच्छ्रेण शुध्यति ॥ ५ ॥ अविसर्जित एवेशे स्थण्डिलादावुपद्रुते ।
अघोरपञ्चसाहस्रं जपेछ्रुत्वा दशांशतः ॥ ६ ॥
नष्टे दग्धेडथवा भ्रष्टे लिङ्गे चोरादिभिर्हृते । लक्षं जपित्वा सम्प्रोक्ष्य लभ्यं चेत् तद् यजेत् पुनः ॥ ७ ॥
तदलाभेऽन्यलिङ्गं वा प्रतिष्ठाप्याभिपूजयेत् ।
सन्ध्यालोपे तु नीरोगः सोपवासः शतं जपेत् ॥ ८ ॥ पूजोपकरणे वामौ पादस्पृष्ठे च लङ्घिते । जपेत् पञ्चसहस्रं तच्छोधयेत् क्षालनेन च ॥ ९ ॥
पुष्पाम्बुगन्धमृत्पात्रक्षीरान्नाज्यं परित्यजेत् । एकाहमर्चनालोपे त्रिरात्रोपोषितो जपेत् ॥ १० ॥ सहस्रं द्विदिनाद्यर्चालोपेऽप्येवं समूहयेत् । पञ्चाहादधिकभ्रंशे कृत्वास्मादपि षड्गुणम् ॥ ११ ॥ सहस्रं जुहुयाज्जापस्तत्संख्यो ब्रह्मणां स्मृतः । अकामात् सङ्कराणां तु ब्रह्मपञ्चशतं जपेत् ॥ १२ ॥