पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२२६

एतत् पृष्ठम् परिष्कृतम् अस्ति

बसन्तपूजाधिकारः] उत्तराjdधे द्वाविंशः पटलः । अथेन्द्रमुख्यैश्च सुरैर्मुनीन्द्रैरभ्यर्थितस्तच्छमनाय वेधाः । प्रोवाच देवान् गिरिशाय गौरीं यतात्मने रोचयितुं यतध्वम् ॥ ४ ॥ नान्योऽस्ति लोके शिवयोः प्रभावाद् दैत्येन्द्रतेजःप्रशमैऽभ्युपायः। एतद्धि कार्ये महदेवमुक्तैर्देवैस्तथा तत् प्रतिपन्नमासीत् ॥ ५ ॥ तत्रेन्द्रमुख्यैर खिलैर्मरुद्भिस्तत्कर्म सम्पादयितुं नियुक्तः । सख्या वसन्तेन सहैव कामः स्थाण्वाश्रमं हैमवतं जगाम ॥ ६ ॥ समाधिभङ्गाय कृतप्रयत्ने कामे वसन्तोऽपि सहायकृत्यम् । समर्थयामास वनैः प्रफुल्लैः पङ्केरुहाणां पवनैश्च मन्दैः ॥ ७ ॥ गौरीसमक्षं गिरिशोऽपि किञ्चिद् वितर्कयंश्चित्तविकारहेतुम् । स्मरस्य तस्याविनयं विदित्वा कोपं प्रवृत्तं न नियन्तुमैच्छत् ॥ ८ ॥ अथास्य नेत्रान्निरगात् तृतीयादग्निः प्रचण्डः स च भैरवोऽभूत् । त्रिलोचनः शूलकपालपाणिभस्मावशेषं स चकार कामम् ॥ ९ ॥ तद् भैरवं कर्म च भैरवस्य महासं रवतो विलोक्य | भीता विषेदुः सहसैव सर्वे दान्ताः सदेवासुरसिद्धयक्षाः ॥ १० ॥ तं भैरवं देववरोऽपि रुद्रः प्रेक्ष्य प्रसन्नोऽभ्यवदत् त्वयाद्य | दान्तास्त्रिलोका दहतैव कामं यस्मात् त्वमस्माद् दमनोऽसि नाम्ना ॥ ११ ॥ अथात्र गौरीपरिचर्ययागताः स्मरस्य पत्न्या सह देवयोषितः । ११९ रतिः स्वपत्युर्विलयं विजक्षुषी पपात कृत्ता कदलीव विह्वला ॥ १२ ॥ तथागतां तत्र रतिं च मन्मथं क्षणादनङ्गं समवेक्ष्य पार्वती । शशाप कोपान्मनसैव भैरवं चिराय वीरुद् भव भूमिगोचरः ॥ १३ ॥ तथा स शप्तोऽम्बिकया तथाभवत् क्षणेन वीरुद्द मनाह्वयस्तदा । स्मराङ्गभस्मन्यभिरामसौरभ : सुकोमलाङ्गै रतिबाप्पसेकजः ॥ १४ ॥ शिवस्तदामोदमतीव मोदनं विभाव्य देव्या विहितानुमोदनम् । स्मयन् स तस्याः शमयन् रुषं ददौ वरं वरेण्यो दमनाय वीरुधे ॥ १५ ॥ वसन्तकाले सवसन्तमन्मथं यजन्ति येऽद्यप्रभृतीह मां जनाः । त्वदङ्ग भूतैर्द मनच्छदादिमिर्मजन्तु कामानभवान्छिताश्च ते ॥ १९ ॥ १. 'न्यस्त्रिलो', २. 'मा' ख. पाठः. ३. 'ये' क. पाठः,