पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२३७

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२३० ईशान शिवगुरुदेव पद्धतौ ततः परिश्रुताम्भोभिः समं सिक्ते तु भूतले । अन्यूनाधिकसंस्थानं यथा ज्ञेयं तदम्भसाम् ॥ ४ ॥ बिन्दुं कृत्वा स्थलं मध्ये तस्मिन् शङ्कं समं न्यसेत् । तद्यथोक्तं चान्यैः- [क्रियापादः "भ्रमविरचितवृत्तस्तुल्यमूलाग्रभागो द्विरददशननन्मा सारदारूद्भवो वा । सममृजुरवलम्बादत्रणः षट्कवृत्तः समतल इह शस्तः शङ्कुरर्काङ्गुलोच्चः ॥” इति । शङ्कोः पुच्छाग्ययोर्मध्ये यवस्थूलायते समे ॥ ५ ॥

लोहजे घटयेत् सूच्यौ तच्छायामध्यसिद्धये ।
शङ्कुमानायतं सूत्रं बिन्दौ तस्मिन् निधाय तु || ६ || 

भ्रमयेत् परितस्तेन बिन्दौ स्थित्वा सुवर्तुलम् । तन्मध्यबिन्दौ तं शकुं स्थापयेदुदये रवेः ॥ ७ ॥

तद्विम्बवृत्तरेखायां शङ्कुच्छाया शिरो यदा ।
हासाद् विंशतिपूर्वा तत्र च्छायाग्रमङ्कयेत् ॥ ८ ॥
तथापराह्वे च्छायायां निर्गच्छन्त्यां तु मण्डलात् ।
संस्पृशन्त्यां तु तद्रेखां प्राग्वत् तत्रापि लाञ्छयेत् ॥ ९॥

तयोरास्फालयेत् सूत्रमृजुं पूर्वापराङ्कयोः । दिशौ प्राक्पश्चिमे स्यातां ब्राह्मी प्राची रमृता हि सा ॥ १० ॥ पाश्चात्याङ्कस्थितं सूत्रमर्धरक्षोघ्नमानतः । प्रागङ्कादुत्तरे दक्षिणेस्य सा दिगैन्द्रोति कथ्यते ॥ ११ ॥ प्रागङ्कादुत्तरे तद्वदैशी काष्ठा तु सा भवेत् । शिवालयादिकरणेष्वैशी प्राचीति केचन ॥ १२ ॥ विप्राद्यावासकरणे स्यादैन्द्रीत्यपरे जगुः । ब्राह्मी दिगेव सर्वेषां नैकतन्त्रनिदर्शनात् ॥ १३ ॥

निरक्षदेशे लङ्कादौ स्यादयं दिग्विनिर्णयः । 

'इत्याहुः केचिदित्यस्मात् साक्षदेशस्य कथ्यते ॥ १४ ॥ १. 'रोदया हा' क. पाठः .