उत्तरार्धे अष्टाविंशः पटलः । शिखरस्य तु भेदेन सर्वेषां भेदमुद्दिशेत् । यथाई तु यथाशोभं सर्वमन्यत् समं स्मृतम् ॥ १२ ॥ मरुत्पथं योजयेच यथाशोभं यथोचितम् । मुखे मुखे महानास्या युक्तं तत् स्याद्धि पक्षयोः ॥ ४३ ॥ अकोष्ठद्वयाद व्योन ठवमानविहङ्गवत् । विमानं नलिनं त्वेतत् कथितं शिववल्लभम् ॥ ४४ ।। नलिनकम् । प्रलीनकस्याधिष्ठानं समानचतुरश्रकम् । तथ्यासेऽष्टांशके भागैस्त्रिभिर्गर्भगृहं भवेत् ॥ ४५ ॥ वेदाभे गर्भशिखरे गर्भाषे निर्गतायता । स्यास् पुरस्तान्महानासी पार्श्वयोश्वाल्पनासिकाः ॥ ४६ ॥ चतलब्धापरे भागे महस्येकैव नासिका। गर्भ[शदांशविस्तारे कोष्ठके द्विगुणायते ॥ ४७ ॥ चस्यातां गर्भाद् रामांशतस्ततम् । खण्डहम्यै च तत्तुल्यं द्विगुणं द्राषिमां तयोः ॥ ४८ ॥ अन्तलींन तु सोपानं गृहपिण्डैघर्षरोहणम् । अर्घारिहा (रि ! र) मध्ये ऽन्तर्गृहं निर्व्यूहतः समम् ॥ १९ ॥ एकत्र पक्षे तल्पं स्यात् त्रिपक्षे त्वप्तलं भवेत् । कुष्यं चैव यत्राशोमं शेषं प्रागिव योजयेत् ॥ ५० ॥ तदधिष्ठानपार्श्वभ्यां सोपाने हस्तितुण्डके । पक्षबन्धं छत्रशीर्ष गृहपिण्डि महाकिया ( ? ) ॥ ५१ ॥ तस्यामटौ चाल्पनास्यः सर्वास्ताः स्वस्तिकान्विताः । प्रतिबन्धमधिष्ठानं स्तम्भाः स्युचतुरश्रकाः ॥ ५२ ॥ लवमानामिषाहिविहङ्गसदृशाकृति । कूटकाभैरवयवैः प्राग्वद् युक्त्या विभूषयेत् ॥ ५३ ॥ '. स. पाठः, १. 'त:' काठ या' ग. पाठः,
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२७६
एतत् पृष्ठम् परिष्कृतम् अस्ति