पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२७९

एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानमुरुदेवपद्धती गृहपिण्डेरषो मूलतलं कूटादिभिः पृथक् । अलकृत्य चतुर्दिक्षु महाकोर्विभूत्रयेत् ॥ ७७ ॥ तले तले सौष्ठिकाग्रमण्डलं मुख्यमण्डपम् । अन्तर्मुखं हि तत् कुर्याच्छेषं पूर्ववदाचरेत् ॥ ७८ || अत्र पराशरः -- " समुज्ज्वलं तत् सकलेशमन्दिरं सुवृत्तसौष्ठयमशिरोगलान्वितम् । सभद्रशालं सकलानमण्डितं जयर्द्धिकीर्तितिदं मनोहरम् ॥" समुज्ज्वलम् । श्रीच्छन्दस्याप्यधिष्ठानं समानचतुरश्रकम् । अष्टाश्रं शिखरे साष्टनासिकं स्याद् गलेऽपि च ॥ ७९ ॥ अष्टा सौष्ठिकामं च शुकनासिकयान्वितम् । शेषं समुज्ज्वलस्यव कुर्यादेतच्छिवप्रियम् || ८० || श्रीच्छन्दम् । अधिष्ठानादौशिखराद् वृत्तभद्रे तु वर्तुलम् । मध्ये नालीगृहं वृत्तं तन्मध्ये च चतुर्दिशम् ॥ ८१ ॥ कोष्ठानि समभद्राणि प्रमाणभवनं तथा । समविस्तारनिर्याणं तयोर्मध्ये विभूषयेत् || ८२ || अत्र पराशरः - "तयोरन्तरे हस्तिपृष्ठ क्षुद्रकोष्ठादिभिर्महाविन्यासषु परितो मण्डनीयं तन्मुखैमण्डपं सभद्रं समसूत्रं बहुतुलं सर्वदेवानां प्रशस्तमेव" इति । वृत्तभद्रम् । श्रीकान्तस्याप्यधिष्ठानं समवेदाश्रकं स्मृतम् । विस्तारेऽष्टनवांशेतु द्वित्र्यंशाद् गर्भमन्दिरम् || ८३ ॥ १. 'नं', २. , ३. 'अ' ग, पाठः. ४. दि' क. पाठ: ५. ख. पाठः,