एतत् पृष्ठम् परिष्कृतम् अस्ति
________________
जातीतरविमानालङ्काराधिकारः ] उत्तरार्धे एकोनत्रिंशः पटल: ।
नीडं शेषं हि हारांशं कूटादिसमसूत्रकम् ।
स्वस्तिकाबन्धवन्नास्यस्त्रिचतुःपञ्चभूमिकम् || ५ || नानाधिष्ठानकस्तम्भवेदिकाजालतोरणैः । वृत्तस्फुटितनी डाद्यैर्भूषयन्मेरुमादरात् || ६ ||
मेरुविमानम् ।
तदेव कण्ठे शिखरे चतुरश्रं तु मन्दरम् । मन्दरम् । तदेव वस्वश्रगल शिखरं वसुनासिकम् ॥ ७ ॥ अष्टपञ्जरकूटं च नाम्ना कैलासमिष्यते ।
कैलासम् ।
वेदवस्ववृत्ताभगर्भगेहं तदेव हि ॥ ८ ॥
समद्रनासिकं ख्यातं विमानं कुम्भसंज्ञितम् । कुम्भविमानम् ।
वेदाश्रगर्भगेहं तज्जयाङ्गाख्यं सभद्रकम् ॥ ९ ॥
जयाङ्गम् ।
विशालाङ्गं तदेव स्याद् वृत्तं शिखर कण्ठयोः । विशालाङ्गम् । तदेव मध्ये हित्वांश कोष्ठयुक्तं द्विभागतः ॥ १० ॥ • अष्टाश्रशिखरग्रीवं तथाष्टगलनासिकम् ।
अष्टपञ्जरकूटं च द्विषष्टितिलान्वितम् ॥ ११ ॥ सावारं वा निरावारं त्रिचतुः पञ्चभूमिकम् । विमलाकृतिसंज्ञं हि विमानमिदमद्भुतम् ॥ १२ ॥ विमलाकृति ।
१. 'मण्डयोः क. ख. पाठः २७९.