________________
२९३ क्षत्रियीवमानाधिकारः ] उत्तरार्धे एकोनत्रिंशः पटलः । अर्धेनार्घारिका हारा खण्डहर्म्यावली भवेत् । शिखरं दीर्घवृत्तं स्यात् पुरस्तान्नासिकाद्वयम् ॥ १४३ ॥ तदर्धात् पृष्ठतस्त्वेका परितश्चाल्पनासिकाः ।
चतुःसप्ततिसङ्ख्याः स्युः सोपानं पृष्ठरोहि च ॥ १४४ ॥
अन्तलींनं भवेदेतद् योगकान्तं नृपोचितम् ।
योगकान्तम् ।
स्यात् सर्वललितस्यापि दीर्घाश्रं हि मसूरकम् ॥ १४७ !
व्यासत्र्यंशाद् गर्भगृहं तदर्धाद् गृहपिण्डिका ।
कपोतशालाः कर्णेषु कुर्याद् भद्रसभाः पुनः ॥ १४६ ॥
तदन्तरे च शालाः स्युरन्तर्लीनं यथेष्टतः ।
सर मण्डपे स्यातां पुरस्ताच्चास्य पृष्ठतः ॥ १४७ ॥
शिखरं च सभाकारं सभद्रं वेदनासिकम् । शेषैरङ्गैरनल्यैश्चाप्यनैरपिं च भूषयेत् ॥ ४८ ॥
सर्वललितम् । प्रत्यन्तकान्ताधिष्ठानं समानचतुरश्रकम् । मध्ये वेदांशतः स्तम्भैरावृतं स्यात् तदर्धतः ॥ १४९ ॥ गृहपिण्डर्भवेत् तस्य कर्णेषु हलकुड्यकम् । अप्तलं खण्डहर्म्यं च भागाभ्यां कर्णकोटिषु ।। १५० ॥
सभाः स्युर्मध्यतस्तासां भद्रशालचतुष्टयम् ।
स्यात् पञ्जराद्यैजालाद्यैर्हारामध्येषु भूषयेत् ॥ १५१ ॥ वस्तुमध्यं सभाकारं मुखशालान्वितं भवेत् । शिखरे क्षुद्रनास्योऽष्टौ भद्रकूटैश्च भूषयेत् ॥ १५२ ॥ प्रत्यन्तकान्तम् । अधिष्ठानं विशालस्य दीर्घाश्रं तस्य विस्तृतेः । त्रिभागाद् गर्भगेहं स्याच्छेषेणाम्बुतलं भवेत् ॥ १५३ ॥