एतत् पृष्ठम् परिष्कृतम् अस्ति
________________
उपपीठविधिः ] १. उत्तरार्धे त्रिंशः पटलः । विस्तारद्विगुणायामो युग्मायुग्मे च कोष्ठके ।
पञ्जरालिन्द के तुल्ये भागार्घार्धारिको भवेत् ॥ ३४ ॥
पञ्च त्र्यंशमलिन्दं वा गृहपिण्ड्यादि शेषतः ।
तलविभागाधिकारः ।
कायश्चाप्यनुकायश्च प्रासादाङ्गं द्विधा स्मृतम् ॥ ३५ ॥
अधिष्ठानं तथा स्तम्भो भित्तिः कुम्भश्च मण्डिकाः । पोतिका स्याद् भारतुला . जयन्तय इति क्रमात् ॥ ३६ ॥ अनुमार्गाश्च कायः स्यादनुकायोऽथ कथ्यते । उत्तरं वाजनं श्रेणी बलीकं कर्णपत्रिका || ३७ ॥ सन्धिद्वारकपाटानि योगः प्रच्छादनानि च ।
कुम्भवली तोरणानि मुष्टिबन्धाष्टमङ्गलैः ॥ ३८ ॥
मृणालिका दण्डिका च नीप्रहाराश्च नासिकाः ।
पट्टिका वलभी बन्धवेदिका जालकानि च ॥ ३९ ॥
कर्णकूटास्तथा कूटा नीडकोष्ठादयोऽपि च । ऊर्ध्वप्रच्छादविन्यास सुधालोष्टेष्टकादयः ॥ ४० ॥ अनुकायाभिधानानि सामान्यानि भवन्ति हि । देशोचितानि क्षुद्राल्पविमानानि भवन्ति हि ॥ ४१ ॥
नागरं द्राविलं चैव वेसरं च त्रिधा मतम् ।
चतुरश्रं वायताश्रं नागरं तत् प्रचक्षते ।। ४२ ।।
षडश्रं वाथवाष्टाश्रं समं वा दीर्घमेव वा । द्राविलं सौधमुद्दिष्टं वेदाश्रं वा गलादधः || ४३ || कण्ठादुपरि चाष्टाश्रं तदपि द्राविलं स्मृतम् ।
वृत्तं वृत्तायतं वापि द्वयश्रं वृत्तमथापि वा ॥ ४४ ॥
कण्ठादधस्ताद् वेदाश्रं तदूर्ध्वं वर्तुलं च यत् । विमानं वेसराख्यं स्यात् त्र्यं तत्रिगुणं स्मृतम् ॥ ४५ ॥ 'प' क. ख. पाठः. ३०३