________________
क्रामाधिकारः] उतरार्धे अष्टमः पटलः । मध्येऽम्बुजे वर्तुलकर्णिका स्यात् पीतात्र रक्ता तनुकेसराली । ईशस्तु मध्ये पुरुषादयोऽपेि सुवर्णदिग्लिङ्गगता भवन्ति ।। ९६ ॥ अस्यैव तु लतास्थानेष्वालिख्य स्वस्तिकानि तु । ૧ एकं त्रीणि ततः पञ्च कोष्ठलोपः क्रमात् स्मृतः ॥ ९७ ॥ एतत् खलु स्वस्तिकमण्डलाब्जं क्षेत्रेऽथवा द्वादशभागिकेऽस्मिन् । मध्येऽम्बुजं षोडशकोष्ठकैः स्यात् स्युः स्वस्तिकान्यष्टदिशासु तद्वत् ॥ ९८ ॥ स्वस्तिकान्यपि पद्मं च प्राग्वदापूर्य चूर्णकैः । स्वस्त्यर्थं स्वस्तिकं शस्तं सर्वदेवाभिनन्दनम् ॥ ९९ ॥ स्वस्तिकाब्जद्वयाधिकारः । क्षेत्रे तथाष्टादशभागिकेऽस्मिंस्तन्मध्यगस्वस्तिकनाभिमादौ । सङ्कल्प्य लुम्पेत् तु चतुष्पथाभं समन्ततः कोष्ठकपञ्चकानि ॥ १०० ॥ कोष्ठमात्रायता रेखाः कुटिलाः स्वस्तिकाकृतौ । परस्परोपयोगिन्यः स्थाप्याः स्युः शेषलोपतः ॥ १०१ ॥ पचाशदस्मिन् खलु सप्तकं च स्यात् स्वस्तिकानां सह चार्कभद्वैः । मध्येषु पब्चाशदपि द्वयं च स्यात् सर्वतोभद्रचतुष्पथानाम् ॥ १०२ ॥ कोणेष्वेकैककोष्ठानि शिष्टान्याभूषयेत् सितैः । नीलपीतारुणश्यामैर्भद्राण्यपि चतुष्पथान् ॥ १०३ ॥ एतद्धि सर्वतोभद्रस्वस्तिकं नाम मण्डलम् । सर्वस्वस्तिकमित्येके प्राहुर्यच्छिवयोः प्रियम् ॥ १०४ ॥ क्षेत्रेऽथवा षोडशधा विभक्ते मन्वर्कदिग्वस्वृषिभेदिते वा । प्राग्वद् विलोपात् खलु मण्डलानि स्युः सर्वतः स्वस्तिकभद्रवन्ति ॥ १०५ ॥ स्वस्तिक सर्वतोभद्राणि । चतुरश्रे द्विहस्ते तु चक्राब्जं पाठवर्जितम् । स्वादेकनामं तल्लक्ष्म भवेन्मानाङ्गुलक्रमात् ॥ १०६ ॥ निषाय सूत्रं स्वथ पद्मविन्दौ पद्मार्धमानेन नवाङ्गुलैश्च । त्रिमियं वस्वब्धिमितैर्ग्रमेण सरोरुहं नाभ्यरनेमयः स्युः ॥ १०७ ॥