एतत् पृष्ठम् परिष्कृतम् अस्ति
________________
प्रपञ्चगणपतिः]
पूर्वार्धे पञ्चदशाः पटलः ।
इति पूर्वसेवनविधौ चरिते मनुरेष सिद्धिमधिकां तनुते ।
प्रतिवासरं यजनहोमजपैर्भजतां भवन्त्यभिमतान्यचिरात् ॥ १८ ॥ अथ लिख्यतेऽस्य तु विधानवरं स्मरणेन सिध्यति च यस्य मनुः । प्रविलिख्य चित्रतरचित्रपटं विभवे यजेत् सति न चेन्मनसा ॥ १९ ॥ अथ चिन्तयेदुदधिमिक्षुरसं लहरीतरङ्गशतरम्यतरम् ।
तिमिनक्रशङ्खकुलमीनगणैः सतिमिङ्गिलाकुलजलोल्लसितम् ।। २० ॥
पुलिनं च मध्यभुवि तस्य महन्मणिपर्वतं च शिखरोपचितम् ।
परितस्तमालवनतालशतैः सरलैश्च सालघनसारनगैः ॥ २१ ॥
सकदम्बनिम्बनिकुरुम्बयुतैरपि नालिकेरकरकेलिशतैः ।
वरकुण्डहालिनिचुलाम्रवणैः कदलीवनैश्च रमणीयतटम् ॥ २२ ॥ नवपूगपूगगतनागलताकुलसल्लकीलवलिकामरिचैः । सलवङ्कबिल्वबकुलैश्च मिलन्मदचञ्चलीककुलनादकलम् ॥ २३ ॥ सहकारकोरकरसास्वदनोन्मदकोकिलस्वनसनाथमरम् । चमरैरपि स्रमरकैश्चरितं सुरकिन्नरासुरवराध्युषितम् ॥ २४ ॥ नवपल्लवाकुलगुलच्छमिलत्कलिकोन्मिषत्कुसुमभारततीः ।
व्रततीभिरत्र दधतीभिरलं समलङ्कृतं खगकुलाकुलितम् ।। २५ ॥ कुवलयैः कमलैः समलङ्कृतं समरसं सरसामपि सारसैः । कचन कैरवकैर्विकचोत्पलैः कुरवकैः कलहंसकुलैरपि ॥ २६ ॥ तटपरिस्रुतनिर्झरशीकरोत्करभरैर्गजदानमनोहरैः । चलितचन्दनचम्पककेतकीपरिमलैरनिलैरपि सेवितम् ॥ २७॥ सकलशीतकरोदयचन्द्रिकाविशदतारकजालकमेकतः ।
गगनमुद्यदुदंशुमदंशुना विलसितं क्वचिदम्बुवहैरपि ॥ २८ ॥
समधुमाधवशुकशुचिश्रिते नभसि युक्तनभस्यमिधोर्जयोः । सहसि सङ्गि सहस्वसमं तपः कुसुमसंपदलम्भि तपस्यता ॥ २९ ॥ ऋतुगणेन समानगुणोदयं सततसंभृतकौसुमसम्पदा ।
समधिकं समलङ्कृतकाननं कनकचारुतट प्रविचिन्तयेत् ॥ ३० ॥ १. 'चिस्मितौ न', २. 'यस्यताम् । ' ख. पाठ :.