________________
त्र्यैम्बकाधिकारः ] पूर्वार्धे एकोनत्रिंश: पटलः । ध्यानं च पूर्ववत् तत्र विशेषस्तूपदिश्यते । धवलकमलचन्द्रद्वन्द्वमध्योपविष्टं हरिणपरशुपाणि साक्षमालाकपालम् ।
अमृतकिरणचूडं पाण्डराकल्पवर्ण स्रवदमृतजलार्द्र नौमि मृत्युञ्जयेशम् || मृत्युञ्जयाधिकारः ।
मन्त्रस्यैम्बकः श्रौतो मृतसञ्जीवनं स्मृतम् ॥ २६ ॥ ऋषिर्वसिष्ठो भगवान् भार्गवश्चेति केचन ।
छन्दोऽनुष्टुब् देवता स्याद् रुद्रस्त्रैयम्बपूर्वकः ॥ २७ ॥
षडङ्गानि स्वयं रामवेदाष्टनवपञ्चकैः । त्रिभिश्चापि निजैर्वर्णैः पादाङ्गुल्यग्रसन्धिषु ॥ २८ ॥ पादसन्धिद्वये जान्बोर्गुह्ये मूले तथोदरे । पृष्ठे च हृदये कण्ठे बाहोः सन्ध्यङ्गुलीष्वपि ॥ २९ ॥
वक्रघ्राणाक्षिकर्णभ्रूयुगलेष्वपि मूर्धनि ।
द्वात्रिंशद्वर्णविन्यासं बिन्द्वन्तं पृथगाचरेत् || ३० || -
शिरोभ्रूनेत्रवदनकण्ठहृन्नाभिषु क्रमात् ।
गुह्योरुजानुपादेषु पदान्येकादश न्यसेत् ॥ ११ ॥ ध्यानं च आसीनः पुण्डरीके दधदमृतमयं पूर्णकुम्भं निजाङ्के
पाणिभ्यां पुस्तकाक्षस्रजमपि सुधया पूर्णकुम्भौ सिताङ्गम् । कुम्भाभ्यां सौधवर्षैर्धृतशशिशकले मूर्ध्नि सिञ्चन् कपर्दी
शुक्काकल्पोऽष्टबाहुः प्रहसितवदनो रक्षतात् त्र्यम्बको वः ॥३२॥
भभाष्टावरणा पूजा कर्तव्या त्र्यम्बकस्य तु ।
शिवासने तु शैवोक्ते निजाङ्गैः प्रथमावृतिः ॥ ३३ ॥ क्ष्मावह्नियजमानार्कजलवाविन्दुपुष्करैः । अष्टाभिर्मूर्तिभिः शम्भोर्द्वितीयावरणं स्मृतम् || ३४ ॥ १. 'या' क. पाठः . १५३ Y