पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३६१

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

३५१ [मन्त्रपादः मर्कटी गुलिके वुक्ता दशचूर्णमिदं भवेत् । एते तु गुलिके लब्ध्वा समांशा कालिकागृहे ॥ ७९ ॥ मन्त्रेण चूर्णिता लक्षत्रयजापेन साधिता । दशचूर्णमिदं न्यस्तं शत्रुवह्निमठादिषु ॥ ८० ॥ सर्वोत्सदनकृद् गुह्यं पिप्पलादेन भाषितम् ।

एकाश्विविकीलायसाख्यं + + सप्ताङ्गुलं रिपोः ॥ ८१ ॥
समन्त्रकं खनेत् पादे तस्योच्चाटन कृद् भवेत् । 

वनस्थानेषु दुर्गायाः काल्याया वाथ शर्कराः ॥ ८२ ॥ अविकालत्रयते कपाले शुक्तलोणवत् । तद्यष्टया भर्जिता जप्या विकीर्णाः सर्वचाटनाः ॥ ८३ ॥ सन्ध्यायां शिवमन्दिरेषु नवसु प्राप्योत्थिताः शर्करा ++++++ + + + + + + + + + + + + + 1 ++++++ + +++++++++++ ++ ++++++++++ ||<-811 + + + + + + + + + + + + + + + + + + 1 नग्नो +++++++++ याः शर्करोच्चाटनका विसृष्टाः ॥ ८५ ॥

मध्यादिविद्यां विलिखेत् षड रक्त + + वा पुर. मह । 

अग्नेश्च वायोर्नृकपालमध्ये प्रेताहितघ्नं निखनेत् श्मशाने ॥ ८६ ॥ क्षुद्रप्रतीकारविधिः सुदर्शनमंनूदितः । वक्रहोमाभिषेकाद्यैर्नश्यन्ति क्षुद्रजातयः ॥ ८७ । दौर्गेश्च नारसिंहाद्यैरघोरास्त्रापराजितैः । क्षुद्राभिचारशान्त्यर्थाः प्रयोगाः सम्प्रदर्शिताः॥ ८८ " थापीह प्रतीकाराः प्रत्याङ्गिरसचोदिताः ।

लिख्यन्तेऽत्र समासेन जनानां हितकाम्यया ॥ ८९ ॥

प्रत्याङ्गिरससूक्तेन पञ्चत्रिंशदृचा स्मृताः । पादाधिका खिले दृष्टा ऋषिणाङ्गिसा पुरा ॥ ९० ॥