पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३६६

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

लवणमन्त्राधिकारः ] पूर्वार्ध अष्टचत्वारिंशः पटलः । ३५७ काफुण्डेणिषिणि काकुण्डालि अमुकं दह पच शीघ्रं वशमानय ठठ । सकार्पासास्थिलवणदन्तकाष्ठाङ्घ्रिपांसुभिः । अनेन सन्ध्या होमेन सप्तरात्राद् वशीकरम् ॥ ४ ॥ नमः कृष्णाय यक्षाय णाविरि णाविरि चले विचले चिसे रेतो मोचय ठठ । अश्वारिकुसुमं रक्तं सप्तवारेजपात् पुरैः । यस्यास्तु भ्रमयेत् सास्य वश्या स्यात् क्षरति ध्रुवम् ॥ ५ ॥ यक्षाणां नमः । असमे कुसुमे ठठ | एतत्सप्तजपात् पुष्पं दत्तं वश्याय वा फळम् । चतुष्पत्राम्बुजं भूर्जे रोचनाचन्दनार्पितम् ॥ ६ ॥

सनामकर्णिकं पत्रचतुष्कलिखिताङ्कुशम् । 

आज्यस्थमर्चयेत् पुंस्त्रीवश्यमाकर्षयेदपि || ७ ||

साग्निः सांख्योऽर्धनारीशः साङ्घ्रिदण्डी तु वाससी । 

चिताङ्गारेण लिखितं योनिस्थः साध्यवश्यकृत् ॥ ८ ॥ वृषमेषौ दृशा युक्तौ दीर्घस्य ब्राह्मणोऽन्तगौ ।

मनोरञ्जन उद्वन्द्वं दशार्णो वश्यन्मनुः ॥ ९ ॥ 

लिखेद् वामतले लाक्षारसेनाष्टदलाम्बुजे ।

पत्रस्थमन्त्रं वश्याय दर्शयेद्धृदि वा न्यसेत् ॥ १० ॥
मन्त्रं लिखित्वा वश्यादौ जपेदायाति काङ्क्षिती ।
जपित्वानेन दधिजं योनौ विन्यस्य तज्जपात् ॥ ११ ॥
तेनाज्येन मषी क्लृप्ता नेत्रस्था भर्तृरञ्जिनी ।
अथात्र सर्ववश्यानां मुख्यो लवणसंज्ञितः ॥ १२ ॥ मन्त्रो ह्याथवणोऽम्यर्षिर्वरुणो लवणोऽङ्गिराः ।
छन्दोऽनुष्टुब् महारात्रिर्भद्रकाली च देवता ॥ १.३ ॥
अग्निरित्यपरे प्राहुर्ध्यानं च द्विविधं स्मृतम् ।

'ले चि' ख. . पाठः २. 'रि' खः पाठः. ३. 'नः ' ग. पाठः ४. 'ता' 1. - स. पाठः. ५. 'भ' ग. पाठः. ६. 'तम्' ख. पाठः.