पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३९०

एतत् पृष्ठम् परिष्कृतम् अस्ति

पूर्वार्धे द्विपञ्चाशः पटलः । कर्णौ पाली बाहुमध्यं पार्श्वाजेशौ च मज्जया । उमाकान्तश्च कथिता वर्णाः कारण्डवस्य हि ॥ ११ ॥ ओष्ठे चाषढिरक्ते चे शिवोत्तमशिखी तथा । डिण्डी शुक्लं च वर्णाः स्युरष्ठौ सारसंपक्षिणः ॥ १२ ॥ दन्तस्थौ लाङ्गलीकूर्मावत्रिर्मांसं ततो नभः । छगलण्डश्च वर्णाः स्युरष्टावेव तु बर्हिणः || १३ || 21 हुन्जैत्रकर्मादिविधिः] ऋऋचतुष्कं च स्वरान्त्यौ टङञान्तिमाः । पक्षिचारविहीनानि तान्यनामादिकानि हि ॥ १४ ।। ३८१ प्रतिपत्पूर्वास्तिथयो नन्दा भद्रा जया च रिक्ताख्या | पूर्णा च पञ्चमी स्यात् पञ्च क्रमतस्तु कण्टकादीनाम् ॥ १५ ॥ स्वतिथौ नाडीषट्कं प्रथमं भोक्ष्यन्ति कण्टकाद्यास्ते । शेषाः क्रमेण विहगाः नाडीषट्काणि भुञ्जते क्रमशः ।। १६ ॥ बाल: कुमारो राजा च वृद्धः स्वर्गत एव च । मुक्तिर्यानं च राज्यं च कर्म सुप्तिस्तथा मृतिः ॥ १७ ॥ नन्दादिष्वादिषट्काद्यमवस्थैवं तु पक्षिणाम् । पञ्चस्वपि च षट्केषु तिथिपूर्वापरार्धयोः ॥ १८ ॥ तु नन्दाद्यनाडिषट्के बालकुमारावनीशवृद्धमृताः । श्येनः कारण्डवसारसशिखिनो यथाक्रमं कथिताः(?) ॥ १९ ॥ पिङ्गलकारण्डवकौ सारसशिखिनौ च कण्टकः क्रमशः । बालाद्या विज्ञेया द्वितीयषट्के तु पञ्चके विहगाः ॥ २० ॥ कारण्डवसारसकौ॰शिखिकण्टकपिङ्गलास्तृतीये स्युः । षट्के बालकुमारकनृपवृद्धमृताः क्रमेण विज्ञेयाः ॥ २१ ॥ सारसकेकिश्येनाः पिङ्गलकारण्डकौ चतुर्थे स्युः । षट्के बालकयौवननरपतिवृद्धा मृतश्च विहगवराः ॥ २२ ॥ शिखिकण्टकशिशुलूकाः काण्डवसारसौ च पञ्चैते । बालकुमारकनरपतिजरठातीताश्च पञ्चमे षटूके ॥ २३ ॥