एतत् पृष्ठम् परिष्कृतम् अस्ति
________________
४८ ईशानशिवगुरुदेवपद्धतौ [मन्त्रपादः गृहाण पूजां प्रकृतां यथाविभवभाविताम् ।" मन्त्रेणानेन संपुटं विधिना ।। ४१ ॥ मूलाङ्गपूरितार्घ्य॑स्तेनात्मस्थानसाधनावोक्षणतः ।
शोध्यं स्यात् प्लुतमन्त्रैश्चेद् बेरं पुष्पशोभनतः स्नापनतः ॥ ४२ ॥ हृदयेनार्घ्यं दद्यात् पाद्याचमनमस्त्रतोऽङ्गमनुमूलजपात् ।
स्नानं वसनाभरणे गन्धादीन् पञ्च चापि हृन्मूलयुतम् ॥ ४३ ॥
घृतपायसं तु ससितं नैवेद्यं शुद्धमोदनं घृतमिलितम् । स्वादुफलैरुपदंशैर्धृतसिद्धर्मोदकैस्तथा मधुररसैः ॥ ४४ ॥ शीतलमम्बु सगन्धं दत्त्वा हस्तावसेकतो मुखवासम् । जुहुयाच्चाग्नौ विधिवद्धुत्वाग्निमुखं तथाङ्गमूलाज्यहुतैः ॥ ४५ ॥ जात्युत्पलानि तुलसी वासन्ती मल्लिका च कुब्जाख्यसहाः । नन्द्यावर्तकदमनकमरुवकमालूरनागपुन्नागशीफाः ॥ ४६
वन्यानि वा सुगन्धैर्युक्त्या पुष्पाणि यानि शुक्लानि तथा । त्यक्त्वा द्रोणं लक्ष्म्याः प्रीत्यै प्रभवति चेत्थमार्यागीतिः ॥ ४७ ॥ [एता आर्यागीतयः । अजमजरममरमेकं भक्त्या विष्णुं प्रणम्य तु श्रीविषयाम् । आर्यागीतां तनुयादिति पथ्यामर्चनां चतुर्वर्गाप्त्यै ॥ ४८ ॥ [पथ्यार्यागीतिः।
श्रियमाप्तुमिच्छुरिह चेत् स साधको जपतु सततमपि मनसि मनुम् । विपुलां त्यजन् विषयसङ्गतिं धिया भाजनं भवति कमलायाः ॥ १९ ॥
[विपुलायर्यागीतेः। सितवस्त्रपुष्पगन्धस्तु नित्यहोमी च मन्त्रजपयजनपरः ।
धर्मेण योऽर्थवान् सत्यधीर्भवेत् पदमखिलविभवसंप्राप्तेः ॥ ५० ॥
[विपुलाचपलार्यागीतिः॥
इति गणवृत्ताधिकारः।
-