पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/५९

एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

५० ईशानशिवणुरुदेवपद्धतौ

दौस्थ्यं हरति तथा विश्लोकं दुर्नयकलहकृतानपि दोषान् । 

पीडामपि महतीं रिपुजाता होमः सितकमलाज्यसमेतः ॥ १३ ॥ विश्लोकः । यदि वाञ्छति नृपसममैश्वर्यं राज्यं स्वयमिह परिपा(तुपो ? तुं वा)। तद्दशशतदिनजपहोमाभ्यां राज्यं श्रियमपि लभते चित्राम् ॥ ६१ ॥ चित्रा । षट्त्रिंशञ्च शतत्रययुक्तं बिल्वैधांसि फलानि दलानि । जुहुयाद् वा विभवैरुपचित्रां त्रैषवणं महतीं श्रियमेयात् ॥६५॥ उपचित्रा। तत्कालेषु घृतान्नहुतं स्यात् सक्षीरं द्विजभोजनयुक्तम् ।

उपचित्रापचितिर्निशि कार्या वाञ्छति चेन्नृपतित्वमुपैति ॥ ६६ ॥ प्राम्हत् । विधिना पूरितकलशं स्पृष्ट्वा मन्त्रं जपतु च तद्गतलक्ष्मीम् । 

इष्ट्वा क्षोणीपतिरभिषिक्तः पादाकुलकं भूमिमुपेयात् ।। ६७ ॥ पादाकुलकम् । दत्त्वा द्रविणपशूनपि होत्रे भूषणवसनैर्वाहनधान्यैः ।

अभिमतदानैरपि विप्रास्तानिष्ट्वा नचिरात् साधयतीष्टम् ॥ १८॥ प्राग्वत् । क्षीरोदतनये! राज्ञः प्रसीदाम्बाभिकाक्ङ्क्षितम् ।

श्रीकुम्भेनाभिषिक्तोऽसौ श्रीमान् भूयाच्छतं समाः ॥ १९ ॥

इति देवी विज्ञापयेत् । 

अथ शुभनवगृहविलिखितसरसिजविनिहितनवघटजलमितनवमणिः। सवसनपरिमलकुसुमकमभियज कृतमनुजपहुतमुदयति सवितरि ॥ गीत्यार्या । नृपवरमपि परमपि नरमभिगुणपरहितसुरवरगुरुनुतिरतिमिह । स्नपनकपरमिति यदि कृतमथ खलु चलधृतिमपि भुवि जयमुपगमयति ॥७॥ चलधृतिरित्यन्ये। शालिदूर्वाबिल्वपद्मोत्पलदर्शपुष्पतिलमाषकुशचतुःक्षीरवृक्षाक्षतान् प्रक्षिप्य ब्रह्मकूर्च च मुक्ताजालैरलङ्कृत्यात्मानं च शुक्लाम्बराद्यैः कलशे श्रियः मावाह्यायुतमष्टोत्तरसहस्रं वा मूलं जपित्वा विष्णोर्महती पूजां कृत्वा देवीदेवौ सहितावभिष्टौति । जयजय नखमुखविदलितदितिसुत! जयजय विमथितजलनिधिवरभवे । जयजय धृतजलभवरथचरणक! जयजय सरसिजदृशि कृतनिलयने । चूलिका। १, 'ताः', २. 'हलि', ३. 'स' ख. पाठः.